________________
एवमेषकोऽनेकजिनबिम्बप्रतिष्ठाञ्जनशलाकानां ज्ञानभाण्डागाराणां च स्थापनां चर्कराञ्चकार, अपरं च विशिष्टोपयोगिनमभिधानराजेन्द्रकोषप्रमुखानेकसाहित्यग्रन्थं रचयाञ्चकार । पुनरेषोऽतीवजाग्रद् भावप्रवाहिसुधामयधर्मदेशादिनेदं जैनशासनं जोजोषाञ्चकार । नैतावन्मात्रमेव किन्तु, इत्थंकारमसौ युगापेक्षया सर्वोत्कर्षतामावहनप्रतिबद्धविहारेण, तपसा, ज्ञानेन, ध्यानेन, जातीयोद्धतिकरणेन, मौनादिना च पुरातनप्राभाविकाचार्यसाम्यमुपेयिवान् , इति प्रत्यक्षीकृतवन्तः सर्वे ।
प्रस्तुतेऽस्मिन् श्रीराजेन्द्रगुणमञ्जरीग्रन्थे चैतस्यैव यावज्जीवकृतकार्यभितरव्यावर्ण्यमानसदुपदेशप्रश्नोत्तरादेः प्रासङ्गित्वेऽपि ग्रन्थविस्तारभिया संक्षिप्तमेव व्यावर्णि, किञ्चास्मिन् समावेशितविषयाणां दर्शनसौगम्यार्थं विषयानुक्रमः प्रतिविषयावतरणं चादायि ।
पुनर्ममाऽमुष्य रचने विद्याविशारद-विद्याभूषण-जैनश्वेताम्बराचार्य-श्रीमद्विजयभूपेन्द्रसूरिपुङ्गवेन व्याख्यानवाचस्पत्युपाध्याय-श्रीमद्यतीन्द्रविजयेन च साहाय्यमकारि, अतएवैनयोः कृतिनोराभारं मन्ये । प्रणिहितमनसोऽपि मे स्वाभाविकप्रमादादिदोषेण कचिदशुद्धिश्चेत् “ स्त्रीव पुस्तिका जात्वपि शुद्धिं नाञ्चतीति" स्मारं स्मारं कृपया संशोध्य पठनीयममत्सरिभिः सुसज्जनैः।
सादरमभ्यर्थयतेऽसौ रचयिता
गुलाबविजयो मुनिः।