________________
१-प्राथमिक-वक्तव्यम् :
अयि सज्जनवृन्द ! यदासीदत्र सत्यधर्मयोहानिर्बलीयसी, तदा तां निरसितुं बलवदतितेजस्वि-पुण्य पुञ्जशाल्यादर्शभूतानां नररत्नानां जनिर्बोभोतितराम् । ते च सत्यपि विषमवातावरणे स्वात्मबलेन सत्य-सनातन-धर्मस्थित्यां सुजनजनचित्तमाकृष्याकृष्य तदात्मकल्याणकारिपथं नयन्तितराम् । त_नेके भवभीरवः प्राणिनः स्वकल्याणं कर्तुं प्रभवन्ति । ___एतदेव नैसर्गिक नियममनुसृत्यैतस्मिन् श्रीवीरजिनशासने शिथिलाचारि-जैनाभासानामुपदेशं श्रावं श्रावं भ्रान्तेयं जनता कुपरम्परयाऽऽचारशिथिलतां, वेषविडम्बनता, प्रतिमोत्थापनतां, यथार्थसाधुश्राद्धक्रियालोपनतां, इत्यादिकां कपोलकल्पितामेव शा स्त्रमर्यादां मन्तुं लग्ना । तदवसरे प्रस्तुतग्रन्थवर्ण्यमानः श्रीमानेष आबालब्रह्मचारी, सर्वतन्त्रस्वतन्त्रः, शुद्धक्रियोद्धारकरः, सौधर्मबृहत्तपोगच्छीय-श्वेताम्बरजैनाचार्यवर्यः, श्रीमद्विजयराजेन्द्रसूरीश्वरस्तद्वृद्धिमुच्छेत्तं भैपूज्योपाधिं विहाय श्राद्धसाधूनां शाश्वतं सत्यधर्म पुनः प्रकाशयाञ्चकार ।
प्रतिग्रामे च लोकवञ्चकतत्कृतानेकोपसर्ग-वितण्डावादादिकष्टं सहमानोऽकृतभयोऽप्रतिबद्धं विहरन्नेष सदुपदेशैरगणितभव्यान् सम्यक्त्वरत्नप्रदानेन शुद्धदृढश्रद्धांश्चक्रिवान् । एवममुना भावानुष्ठाने प्राक्तनी त्रैस्तुतिकीमर्यादा देवोपासनाधिक्याद् विलुप्तप्रायापि प्रमेयाऽनेकग्रन्थोक्ताऽऽदेयसुप्रमाणैः पुनयंतन्तानि ।