________________
७-जैनाचार्य-श्रीमद्विजययतीन्द्रसूरि-गुणाष्टकम् ।
__वसन्ततिलका-वृत्तेश्रीधौलपत्तनवरे ब्रजलाल इभ्य
श्चम्पाऽभिधा च ललनाऽजनि तस्य पुत्रः । द्योवेदनन्दविधुगे शुचिरामरत्न
स्तं सजना हि सुनमन्ति यतीन्द्रसूरिम् ॥१॥ राजेन्द्रसूरिसुगुरोरुपदेशमाप्य, ___ श्रीखाचरोदनगरे रुचिरोत्सवेन । दीक्षा ललौ गतिशराङ्कधरासुवर्षे,
तं सजना हि सुनमन्ति यतीन्द्रसरिम् ॥२॥ साधुक्रियां च समधीत्य जवात्सुबुद्ध्या, .
लेभेऽपरां पुनरयं महतीं सुदीक्षाम् । आहोरमध्य इषुपश्चनवाचलाब्दे, ..
तं सजना हि सुनमन्ति यतीन्द्रसूरिम् ॥३॥ काव्यादिजैनवचनस्फुटशब्दशास्त्रे,
सम्यग् विबोधकरणे सुमतिश्च यस्य । व्याख्यानपद्धतिवराखिलबोधदात्री,
तं सजना हि सुनमन्ति यतीन्द्रसरिम् ॥४॥ .. सद्बाचकेतिसमुपाधि विभूषितात्मा,
देशेतरे विचरणे प्रियतास्ति यस्य ।