SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ 132 06 07 id 3 रोड नीचे विशुमा पापापा कदाचित्तस्य घटस्य नागदन्तके स्थापितस्याधस्ताच्छयनगतो. ऽसौ ब्राह्मणो दिवासुप्तप्रतिबुद्धः । एवं च चिन्तयामास । महार्घ धान्यं वर्तते । किमुत कृतान्नं सक्तवः । तन्मे विंशतिमात्रकाणां रूपकाणां सक्तवः सन्ति । तांश्चाहं विक्रीय च्छालिका विंशतिमात्रा उपावर्तयिष्यामि । षण्मासाश्च प्रसविष्यन्ते । पञ्चाब्दानन्त• राच्च चतुःशतसंख्या बह्या भविष्यन्ति । लोके च श्रूयते । चतसृभिरजाभिरेका धेनुस्तरुणी जीववत्सा च बहुत लभ्यते । सो ऽहं ताभिरजाभिरेव गवां शतं परिवर्तयिष्यामि । सर्वं च गोश - 1 12 415 Book V. THE FRUITS OF RASHNESS; Tale i: Brahman builds air-castles. 9 ५° ता॒त्संभवतीति तदुत्पन्नदान्तैः सर्वबीजवापन करिष्यामि । ततः । सर्वधान्यस्य महान्निचयो भविष्यति । शोभनं च वेश्म प्राकाराभ्यन्तर्हितं करिष्यामि । दासीदासबहेलां च मम महतीं संपदं दृष्ट्वावश्यं कश्चिद्ब्राह्मणः सुरूपां कन्यां दास्यति । तस्यां च दीर्घा - युषमरोगं वंशधरं दारकं जनयिष्यामि । तस्य चाहं यथाविधि जातकर्मादि कृत्वा सोमशर्मेति नाम करिष्यामि । वल्गति च दारके ब्राह्मणी कर्मासक्ता गवामभ्यागमनकाले । प्रमादाद्दारकं नाभिरक्षयिष्यसीति तामहं ब्राह्मणीं पुत्रस्नेहाभिभूतहृदयो लगु - डेन ताडयिष्यामि । ततस्तेनासावेवमभ्याहतो घटः । येन तस्यैवोपरि शतकपालो व्याविद्धसक्तुर्निपतितः । अथासौ ब्राह्मणः स्वप्नरूपमिव तदन्यदचिन्तयत् । किमिदमिति परं वैलक्ष्यं जनहासं चोपगतः । N 18 Frame-story. सुता 21 अतोऽहं ब्रवीमि । अनागतवती चिन्ता न कार्या । दृष्टे कार्ये क्रिया वर्तते । न भित्तिं विना चित्रकर्मेति । संपूर्णे च प्रसवकाले प्रसूता ब्राह्मणी दारकम् । जातं दशदिवसोत्याने च कृत24 कर्माणं दारकं परिरचार्थ पितरि विन्यस्य ब्राह्मण्यशुचिवस्वशोधनायात्मनः शौचनिमित्तं च संनिकृष्टां सरितमवतीर्णा । ब्राह्मणो ऽपि दारिद्र्यदोषादसहायतया
SR No.022630
Book TitlePanchatantra Tantrakhyayika
Original Sutra AuthorN/A
AuthorJohannes Hertel
PublisherHarvard University Press
Publication Year1915
Total Pages164
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy