SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ MAUN AAAAAA AAA CG : ७ फ . भा ॥ अपरीक्षितकारित्वं नाम पञ्चमं तन्त्रम् ॥ अत: परमपरीक्षितकारित्वं नाम पञ्चमं तन्त्रम् । यस्यायमाद्यः श्लोकः । यो ऽर्थतत्त्वमविज्ञाय वशं क्रोधस्य गच्छति । 3 सो ऽचिराअभ्यते मित्राद्ब्राह्मणो नकुलादिव ॥ १ ॥ एवमनुश्रूयते । अस्ति । गौडदेशे शुभगोत्री देवशर्मा नाम ब्राह्मणः प्रतिवसति स्म । तस्य च 6 भार्या यज्ञदत्ता नाम । सा कदाचिद्गर्भिणी संवृत्ता । तां च दृष्ट्वा देवशर्मा परं परितोषमुपागतः । एवं चाचिन्तयत् । महन्मे कल्याणमुपस्थितमपत्यलाभाय । ब्राह्मणी चाब्रवीत् । कृतार्थासि । दारकं जनयिष्यसि । तस्याहं बहुमनोरथो जातकर्मना, मकरणादिसंस्कारान्करिष्ये । स च मे गोवधरो भविष्यतीति । एवं ब्राह्मण्यभिहिताब्रवीत् । को जानाति । दारको भविष्यति न वेति । उक्तं च । ___ अनागतवती चिन्तां यो नरः कर्तुमिच्छति । 12 स भूमौ पाण्डुरः शेते सोमशर्मपिता यथा ॥ २॥ सो ऽब्रवीत् । कथं चैतत् । साह । ॥ कथा १॥ 15 अस्ति । कश्चिद्ब्राह्मणसूनुर्विद्याप्रसङ्गेन कालं नयति स्म । तस्य कस्मिंश्चिद्वणिग्गृहे नैत्यकं वर्तते । स च यदा तत्र न भुङ्क्ते । तदा सक्तुसेतिका लभते । तां चावासं नीत्वा घटे प्रक्षिप्य स्थापयति । एवं च तस्य बहुना कालेन स घटः सक्तभिः संपूर्णः ।
SR No.022630
Book TitlePanchatantra Tantrakhyayika
Original Sutra AuthorN/A
AuthorJohannes Hertel
PublisherHarvard University Press
Publication Year1915
Total Pages164
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy