SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ 99 9 15 18 21 अस्य च मतिपरिच्छेदान्मम दूरस्थस्यापि शक्तित्रयं तैरुपलब्धं भविष्यति । कथम् । THE WAR OF THE CROWS AND THE OWLS. Book III. Tale iii: Elephant and rabbit and moon. 3 दूतं वा लेखं वा दृष्ट्वाहं नरपतेरदृष्टस्य । जानामि तं नरेन्द्रं प्राज्ञं प्रज्ञाविहीनं वा ॥ ५३ ॥ तत्प्रतिमानयस्व । उक्तं च । 6 दूत एव हि संदध्याद्दूतो भिन्द्याच्च संहतान् । दूतस्तत्कुरुते कर्म सिध्यन्ति येन मानवाः ॥ ५४ ॥ अनेन च गतेनासंशयमहमेव गतो भविष्यामि । यत्कारणम् ' कार्यनिष्पत्तिः स्यात् । इति शशराजमामन्त्र्य विजयशशो हस्तिराजसमीपं प्रायात् । गत्वा च द्विरदपतिं दृष्ट्वा चिन्तयामास । अशक्यमनेन सहास्मद्विधानां संगम इति । यदाहुः । 12 स्पृशन्नपि गजो हन्ति जिघ्रन्नपि भुजंगमः । हसन्नपि च वेतालो मानयन्नपि दुर्जनः ॥ ५५ ॥ तत्सर्वथाप्रधृष्यायां भूमौ संदर्शनमस्य प्रयच्छामि । यथोश्चै स्तरां विषमशिलाशिखरमाश्रित्याब्रवीत् । अपि भवतः सुखम् । तच्च श्रुत्वा वीक्ष्य हस्तिराजः शशमाह । कुतो भवानिति । असावाह । दूतो ऽहमिति । तेनाभिहितः । केन प्रेषितः । कथय कार्यमिति । शश आह । जानात्येव भवान् । यथार्थवादिनो दूतस्य न दोषः करणीयः । *उक्तं च । दूताद्युद्धृतेष्वपि शस्त्रेषु यथोक्तवक्तारः। तेषामन्तेवासिनो ऽप्यवध्या इति । * सो ऽहं चन्द्राज्ञया ब्रवीमि । कथं नामात्मानं परं चैवापरिच्छिद्य भवान्परापकारे प्रवर्तते । उक्तं च । परेषामात्मनश्चैव यो ऽविचार्य बलाबलम् । कार्यायोत्तिष्ठते मोहाद्व्यापदः स समीहते ॥ ५६ ॥ 24
SR No.022630
Book TitlePanchatantra Tantrakhyayika
Original Sutra AuthorN/A
AuthorJohannes Hertel
PublisherHarvard University Press
Publication Year1915
Total Pages164
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy