________________
चन्द्रप्रभचरितम् ।
ग्रन्थकर्तुः प्रशस्तिः ।
बभूव भव्याम्बुजपद्मबन्धुः पतिर्मुनीनां गणभृत्समानः । सदग्रणीर्देशिगणाग्रगण्यो गुणाकरः श्रीगुणनन्दिनामा ॥ १ ॥
गुणग्रामाम्भोधेः सुकृतवसतेर्मित्र महसा
मसाध्यं यस्यासीन्न किमपि महीशासितुरिव । स तच्छिष्यो ज्येष्ठः शिशिरकरसौम्यः समभवप्रविख्यातो नाम्ना विबुधगुणनन्दीति भुवने ॥ २ ॥ मुनिजननुतपादः प्रास्तमिथ्याप्रवादः
-
सकलगुणसमृद्धस्तस्य शिष्यः प्रसिद्धः । अभवद भयनन्दी जैनधर्माभिनन्दी
स्वमहिमजितसिन्धुर्भव्य लोकैकबन्धुः ॥ ३ ॥
भव्याम्भोजविबोधनोद्यतमतेर्भाखत्समानत्विषः
शिष्यस्तस्य गुणाकरस्य सुधियः श्रीवीरनन्दीत्यभूत् । स्वाधीनाखिलवाङ्मयस्य भुवनप्रख्यातकीर्तेः सतां
संसत्सु व्यजयन्त यस्य जयिनो वाचः कुतर्काङ्कुशाः ॥ ४ ॥ शब्दार्थसुन्दरं तेन रचितं चारुचेतसा । श्रीजिनेन्दुप्रभस्येदं चरितं रचनोज्ज्वलम् ॥ ५ ॥ यः श्रीवर्मनृपो बभूव विबुधः सौधर्मकल्पे ततस्तस्माच्चाजितसेनचक्रभृदभूद्यश्चाच्युतेन्द्रस्ततः । यश्चाजायत पद्मनाभनृपतिर्यो वैजयन्तेश्वरो
यः स्यात्तीर्थकरः स सप्तमभवे चन्द्रप्रभः पातु नः ॥ ६ ॥ इति ग्रन्थकर्तुः प्रशस्तिः ।
१५३