________________
१३२
काव्यमाला।
कुम्भालोकालक्ष्मणैः पूर्णदेहस्तृष्णावह्निच्छित्सरोवीक्षणेन ॥ यादोनाथात्केवलज्ञानभागी लब्धा सिद्धेहेमसिंहासनेन ।। ६५ ।। खर्गादेता देवि देवालयेन नागावासाद्धर्मतीर्थस्य कर्ता । क्रीडाशैलो रत्नपुञ्जाद्गुणानां धक्ष्यत्युग्रं वह्निना कर्मकक्षम् ।। ६६ ।।
फलं खप्नावल्याः सकलमिति निश्चित्य दयिता____ दधाना रोमाञ्चं प्रकटमपरं कञ्चकमिव । प्रमोदं सा भेजे कमपि वचनानामविषयं
मुदे केषां न स्यादभिलषितसंप्राप्तिरथवा ॥ ६५ ॥ अथाहमिन्द्रः स ततोऽवतीर्य खायुःक्षयेऽनुत्तरवैजयन्तात् । कुक्षौ प्रशस्तेऽहनि लक्ष्मणाया विवेश शुक्तामिव वारिबिन्दुः ॥ ६८ ॥ तस्मिन्गर्भावतारं कृतवति भुवनक्षोभसंपादिपुण्ये
सर्वाटोपेन गत्वा क्षितिपतिभवने सासुरेन्द्राः सुरेन्द्राः । कृत्वा कल्याणमुच्चैर्हतपटुपटहा वेणुवीणाभिरामं . नृत्यन्तः खं निवासं कृतजिनजननीपादपूजाः प्रजग्मुः ॥ ६९ ॥ श्रीहीधृत्यादिभिः खान्वपुषि वरगुणाकान्तिलज्जादिरूपा
न्देवीभिस्तन्वतीमिः सततमनुपमप्रीतिभिः सेव्यमाना । श्यन्ती रत्नवृष्टिं खयमुदयवतीं प्रत्यहं खर्गिमुक्तां मासान्गर्भप्रभावान्नव नलिनमुखी सा सुखेनैव निन्ये ॥ ७० ॥ इति श्रीवीरनन्दिकृतावुदयाङ्के चन्द्रप्रभचरिते महाकाव्ये षोडशः सर्गः ।
सप्तदशः सर्गः। अथ सा प्रसूतिसमयेन जिनमिव दिदृक्षुणेरिता पौषमलिनदशमीक्षयजां तिथिमाप्य सुन्दरमजीजनत्सुतम् ॥ १॥ ककुभः प्रसेदुरजनिष्ट निखिलममलं नभस्तलम् । तस्य जननसमये पवनः सुरभिर्ववौ सुरभयन्दिगङ्गनाः ॥ २ ॥ वियतः पतद्भिरतिहृष्टहृदयसुरवृन्दवर्धितैः । दिव्यकुसुमनिकरैररुचत्क्षितिमण्डलं भ्रमरबद्धमण्डलैः ॥ ३ ॥