________________
११०
काव्यमाला ।
वेश्यागणाः परिचितानुपचारहेतोरध्वश्रमातुरतनूननुपालयन्तः । द्वारि स्थिताः पटमयखनिवासपङ्केवस्तव्यवद्ददृशिरे पृतनाजनेन ॥ ४७ ॥
प्राप्तश्चिरादुरुपरिश्रमखिन्नजङ्घः
पर्युहितुं निजनिवास पदान्यशक्तः ।
बभ्राम मुग्धधिषणः परितः स्ववर्ग्य - व्याहारनादनिहितश्रवणो जनौघः ॥ ४८ ॥ प्रत्ययपाक विततं सुरभीकृताश
मात्राय चित्तहरमिन्दुरिकादिगन्धम् । पर्याकुलं कटकिभिः समुपव्रजद्भिः
क्षुत्क्षामकुक्षिभिरज्ञायत धाम कन्द्वाः ॥ ४९ ॥
शैलानिलः शिथिलकम्पितदेवदारु
रच्छाच्छनिर्झर पयःकणसङ्गशीतः ।
मार्गश्रमव्ययपटुः पटमण्डलस्यै
र्निद्रालसैर्वसुमतीपतिभिः सिषेवे ॥ ५० ॥
प्रस्वेदफेनलव विच्छुरिताङ्गरेखैरुत्तीर्णपल्ययन भूरिभरैस्तुरङ्गैः ।
भूवेल्लनाय परितः परिवर्तमान
वर्तवानिव बभौ शिबिराम्बुराशिः ॥ ५१ ॥
अन्योन्यदर्शनसमुच्छ लितेन भूयः संमूर्च्छताद्रिविवरे हयहेषितेन ।
सेनाचरैर्बधिरितश्रुतिभिर्मुहूर्त
मूकैरिव प्रकृतवस्तुकथासु तस्थे ॥ ५२ ॥
मध्ये जलं प्रकटचञ्चलपृष्ठभागे
पानाय सप्तिनिकरे परितोऽवतीर्णे ।
१. पुस्तकद्वयेऽप्ययं छन्दोभङ्गदूषितः पाठः; 'अज्ञायत ज्ञातम्' इति च टीका.