________________
अन्योन्यस्य प्रणोदप्रलुलितवसनाकल्पमाल्यांगरागः साबाधं यस्य सर्वो विचरति विपुलायामवत्यां पृथिव्याम् । अन्यस्त्रीगात्रयष्टिप्रणयभयवशाद्दूरतस्त्यक्तमार्गाः श्राद्धैर्लोकैरबाधं कुवलयनयनाः केवलं संचरंति ॥ ८० ॥
I
अवचूर्णि:[ : - यस्य प्रासादस्य विपुल्लायामवत्यां पृथिव्यां अन्योन्यस्य प्रणोदप्रलुलितसनाकल्पमाव्यांगरागः सर्वो जनः साबाधं संचरति श्राद्धैः लोकैरन्यस्त्री गात्रयष्टिप्रणयजयवशात् दूरतस्त्यक्तमार्गाः केवलं परं कुवलयनयनाः प्रबाधं यथास्यात्तया संचरंति । परस्त्री गात्रस्य प्रायः श्लेषस्तस्य जयं तस्य वशोऽधीनता तस्मात् अन्योन्यस्य परस्परं प्रणोदः संघहः तेन प्रलुलितानि ष्टानि यानि वसनानि वत्राण का आरणानि माध्यं स्रक् अंगरागो विलेपनं यस्य सः । अथवा अपांग गो जनविशेषणं अन्योन्यस्येति क्रियाविशेषणं ॥ ८० ॥
भावार्थ - जे कुमार विहार चैत्यनी विशाल विस्तारवाली पृथ्वी उपर