________________
श्री केशरीकेवलिचरित्रम्
२४९ स तु चौरस्त्वरादूरमुक्तशूरसमुच्चयः । पुरनामान्तर्गर्मागैरेवागात्पदगुप्तये ॥४७॥ अन्वयः- त्वरा दूरमुक्तशूरसमुच्चयः सः चौरः तु ।
पदगुप्तये पुरग्रामान्तर्गः मार्गः एव अगात् ॥४७॥ भयाकुलितचित्तोऽसौ किञ्चिद्वैराग्यवांस्ततः । दध्यावित्यद्य मे पापमत्युग्रं फलितं ध्रुवम् ॥४८॥ अन्वयः- ततः भयाकुलित-चित्तः किञ्चिद् वैराग्यवान् असौ
इति दध्यौ 'अद्य अति-उग्रं मे पापं ध्रुवम् फलितम्' ॥४८॥ ग्रामारामावनौ क्वापि कस्यापि दिशतो मुनेः । ध्यानतत्त्वं वचश्चौरः श्रद्धयेत्यश्रुणोत्तदा ॥४९॥ अन्वयः- तदा क्वापि ग्राम-आराम-अवनौ ध्यानतत्त्वं दिशतः कस्यापि,
मुनेः वच: चौरः श्रद्धया इति अश्रुणोत् ॥४९॥ सर्वत्र ध्यानसमतारुचिर्मुच्यते पातकैः । जनः सद्योऽपि तिमिरैः कृतदीप इवालयः ॥५०॥ इति हृन्मर्मनिर्मग्नं चौरस्तद्भावयन्वचः । वपुरुत्पुलकं बिभ्रदूर्ध्वस्तत्रैव तस्थिवान् ॥५१॥ युग्मम् ॥ अन्वयः- कृत-दीप: आलयः तिमिरैः इव, सर्वत्र ध्यान-समता
रुचिः जनः सद्यः पातकैः अपि मुच्यते ॥५०॥ इति हृमर्मनिर्मग्नं तद्वचः भावयन् उत्पुलकं वपुः बिभ्रत्,
चौरः तत्र एव ऊर्ध्वः तस्थिवान् ॥५१॥ युग्मम् ॥ सारासाराखिलजगन्नुतिनिन्दावियुक्तधीः ।। तस्थौ मध्यस्थतामग्नः स भग्नदुरितक्रमः ॥५३॥