________________
२५०
सुलभचरित्राणि-२ अन्वयः- सार-असार-अखिल-जगत्-नुतिनिन्दा वियुक्त-धीः भग्न
दुरितक्रमः, सः मध्यस्थतामग्नः तस्थौ ॥५३॥ शेषां रात्रिं दिनं चास्थादेष साम्यलयस्तथा । यथा स्थिरं मनो लीनं पवित्रे परमात्मनि ॥५४॥ अन्वयः- शेषां रात्रि दिने च साम्य-लयः एषः तथा अस्थात्, यथा,
पवित्रे परमात्मनि लीनं मनः स्थिरं (अभूत्) ॥५४॥ घातिकर्मक्षये सायं ज्ञानं जज्ञेऽस्य केवलम् । सर्वत्रान्वेषयंस्तत्र तदा नृपतिरप्यगात् ॥५५॥ अन्वयः- घातिकर्मक्षये सायं अस्य केवलं ज्ञानं जज्ञे,
तदा सर्वत्र अन्वेषयन् नृपः अपि तत्र अगात् ॥५५॥ इतश्चान्वपतद्भूपस्तं हन्तुं भटभारभाक् । इतश्चागान्मरुद्वर्गो नन्तुं दत्तव्रतध्वजः ॥५६॥ अन्वयः- इतः भटभारभाग भूपः तं हन्तुं अन्वपतत्,
इतः च दत्त-व्रत-ध्वजः मरुद्-वर्गः तं नन्तुं अगात् ॥५६॥ सुरैः कृतसुवर्णाब्जासीने केसरिण्यथ । ते हन्तारोऽपि नन्तारो भूपप्रभृतयोऽभवन् ॥५७॥ अन्वयः- अथ केसरिणि सुरैः कृतसुवर्ण-अब्ज-आसीने
हन्तारः अपि ते भूपप्रभृतयः नन्तारः अभवन् ॥५७॥ दन्तांऽशुभिः (शूनि ?) सुभिक्षाणि कुर्वाणश्चन्द्ररोचिषाम्। स व्यधाद् देशनां पापतमसः पूर्णिमां मुनिः ॥५८॥ अन्वयः- दन्तांशुभिः (शूनि) चन्द्ररोचिषां सुभिक्षाणि कुर्वाणः स मुनिः
पाप-तमसः पूर्णिमां देशनां व्यधात् ॥५८॥ १. मरुतां वर्ग:=देवोनो समूह ।