________________
२४८.
सुलभचरित्राणि - २
मम
अन्वयः - जगौ च (हे) स्वामिनि ! स्वैर - चारिणः चौर्य-कारिणः, इयं क्षणदा अमेय ऋद्धि - दायिनी मुदे स्यात् ॥४१॥ इत्युक्त्वा वलमानोऽयं द्वारमारुह्य भूभुजा । कृपाणपाणिना जीवन् रे न यासीति धर्षितः ॥ ४२ ॥ अन्वयः - इति उक्त्वा वलमानः अयं कृपाण - पाणिना भूभुजा द्वारं, आरुह्य 'रे! जीवन् न यासि' इति (उक्त्वा ) धर्षितः ||४२ || इति भाषिणि भूपाले तद्भालं प्रति कालवित् । पादुकाद्वयमेवायमस्त्रीकृत्य कुंधाऽमुचत् ॥४३॥ अन्वयः - इति भूपाले भाषिणि काल-विद् अयं पादुकाद्वयम् एव अस्त्रीकृत्य तद्भालं प्रति कुधा अमुचत् ||४३||
तद्घातवञ्चनव्यग्रे महीभुजि महाभुजः । अयं जीवन्व्रजामीति वदन्नेवैष निर्ययौ ॥४४॥ अन्वयः - महीभुजि तद्घातवञ्चनव्यग्रे महाभुजः अयं - (अहं) जीवन् व्रजामि इति वदन् एव एषः निर्ययौ ॥४४॥ यात्यसौ केसरी चौर इति भूपगिरा भटाः । तमाशु दूरे नश्यन्तमन्वधावन्नृपाज्ञया ॥४५॥ अन्वयः - असौ केसरी चौर : याति इति भूप - गिरा, दूरे नश्यन्तं तं नृप नृपाज्ञया भटाः अन्वधावन् ॥४५॥ चौरलोनावनीं गन्तुं मन्त्रिणे दिष्टशक्ति तत् । प्रदाय पादुकाद्वन्द्वं भूपोऽप्यनुययौ भटान् ॥४६॥ अन्वयः - दिष्ट-शक्ति तत् पादुकाद्वन्द्वं मन्त्रिणे प्रदाय ।
भूपः अपि चौरलोप्त्रावनीं गन्तुं भटान् अनुययौ ॥४६॥