________________
२४७
श्री केशरीकेवली चरित्रम् एवं देवीं त्रिकालं तत्पूजयामि जयामि च । तत्प्रसादोत्थनिःशेषश्रीपूरः श्रीदमप्यहम् ॥३६॥ अन्वयः- तत् एवं त्रिकालं देवीं पूजयामि
तत् प्रसादोत्थ निःशेषश्रीपुरः अहं श्रीदम् अपिच जयामि॥३६॥ नक्तं चौरागमं तत्र सुधीनिश्चित्य तगिरा । ययौ वासरकृत्यार्थमावासं वासवो भुवः ॥३७॥ अन्वयः- सुधीः 'भुवः वासवः तगिरा तत्र 'नक्तं, चौरागमं
निश्चित्य वासरकृत्यार्थम् आवासं ययौ ॥३७॥ नक्तं सारपरीवारश्चण्डिकागारमागतः । न्यस्य दूरे नृपः शूरानिहैकः स्वयमास्थितः ॥३८॥ अन्वयः- नक्तं चण्डिकागारम् आगतः सार-परीवारः, नृपः शूरान्
दूरे न्यस्य स्वयम् एकः इह आस्थितः ॥३८॥ निशीथे स्तम्भगुप्ताङ्गो भूभुजङ्गस्ततोऽम्बरात् । उत्तीर्णं पादुकासिद्धं तमालोकत तस्करम् ॥३९॥ अन्वयः- ततः निशीथे स्तम्भगुप्ताङ्गः भूभुजङ्गः
अम्बराद् उत्तीर्णं पादुकासिद्धं तं तस्करम् आलोकत ॥३९॥ पादुकाद्वयमादाय सोऽथ वामेन पाणिना । गत्वा गर्भगृहं चण्डीमानर्च मणिभिः शुभैः ॥४०॥ अन्वयः- अथ स वामेन पाणिना पादुकाद्वयम् आदाय गर्भगृहं गत्वा
शुभैः मणिभिः चण्डीम् आनर्च ॥४०॥ जगौ च स्वामिनि ! स्वैरचारिणश्चौर्यकारिणः । स्यान्ममेयममेयर्द्धिदायिनी क्षणदा मुदे ॥४१॥ १. भुवः वासवः राजा (भूमिनो इन्द्र) । २. नक्तं-रात्रे ।