________________
२४६
सुलभचरित्राणि-२ अन्वयः- अथ मध्याह्ने वनान्तःभुवि तस्थुषः धरानेतुः नासां कर्पूर
___ अगुरुधूपभूः गन्धः आसादयत् ॥३०॥ व्रजन् गन्धानुसारेण चण्डिकागारमासदत् । चम्पकार्चितां तस्मिन्नपश्यच्चण्डिकां नृपः ॥३१॥ अन्वयः- गन्धानुसारेण व्रजन् नृपः चण्डिकागारम् आसदत्
तस्मिन् चम्पकादि-अचितां चण्डिकां च अपश्यत् ॥३१॥ उन्मुच्य धूपनं तादृग् भूपमभ्याययौ ततः । संयोजितकरः पूजाकरः प्रवरचीवरः ॥३२॥ अन्वयः- ततः तादृग् धूपनं उन्मुच्य प्रवरचीवरः संयोजितकरः पूजाकरः
भूपम् अभ्याययौ ॥३२॥ केनोत्सवेन केनेदृक् चण्डी पूजाद्य कारिता । दत्तानि द्युतिदूनेन्दुभांसि वासांसि केन ते ॥३३॥ अन्वयः- अद्य ईदृग् चण्डीपूजा केन उत्सवेन केन कारिता,
द्युतिदूनेन्दुभांसि वासांसि ते केन दत्तानि ? ॥३३॥ इति पृच्छति भूजानौ पूजाकारी जगाद सः । दुःस्थान्वयस्य मे स्वामिभक्त्या तुष्टाद्य चण्डिका ॥३४॥ अन्वयः- इति भूजानौ पृच्छति (सति) स पूजाकारी जगाद स्वामिन्! दुःस्थान्वयस्य मे भक्त्या अद्य चण्डिका तुष्टा ॥३४॥ प्रगे पूजार्थमायामि यदा नित्यं लभे तदा । देव्याः पादाग्रवर्तीनि रत्नानि कनकानि च ॥३५॥ अन्वयः- प्रगे यदा पूजार्थं आयामि, तदा नित्यं देव्याः पादाग्रवर्तीनि रत्नानि कनकानि च लभे ॥३५॥