SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ श्री केशरीकेवलिचरित्रम् तदेतच्चोरयामीति ध्यात्वोत्तीर्य द्रुतं द्रुमात् । पादुकेपादयोः क्षिप्त्वा चौरोऽगाद्गगनाध्वना ॥१६॥युग्मम्॥ अन्वयः - वेद्मि, यद् अस्य इदं पादुकाद्वन्द्वं आकाश - गतौ क्षमम् असौ इह एतद् मुक्त्वा पद्भ्यां जले अविशत् ॥१५॥ तद् एतत् चोरयामि इति ध्यात्वा, द्रुमाद् द्रुतं उत्तीर्य पादयोः पादुके क्षिप्त्वा चौरः गगनाध्वना अगात् ॥१६॥ युग्मम् ॥ स निर्गम्य दिनं वापि नक्तं तत्पादुकापदः । चिन्तासमानसमयं व्योम्ना धाम्नि ययौ निजे ॥१७॥ अन्वयः- चिन्तासमान समयं दिनं क्व अपि निर्गम्य तत् पादुका - पदः सः 'नक्तं व्योम्ना निजे धाम्नि ययौ ॥१७॥ २४३ राज्ञे विज्ञप्य चौरं मां त्वं पुरान्निरकाशयत् । इत्युक्त्वाऽताडयद् दण्डैः पितरं नितरामसौ ॥१८॥ अन्वयः - मां चौरं (इति) राज्ञे विज्ञप्य त्वं (मां) पुराद् निरकाशयत् इति उक्त्वा असौ दण्डैः पितरं नितराम् अताडयत् ॥१८॥ परासुं पितरं त्यक्त्वा महर्द्धनि गृहाणि सः । प्रविवेश पदार्थौघं सारं सारं जहार च ॥१९॥ अन्वयः - 'परासुं पितरं त्यक्त्वा स महर्द्धनि गृहाणि प्रविवेश, सारं सारं च पदार्थौघं जहार ॥१९॥ अन्त्ये यामे त्रियामायाः स समासान्पुनः । सरोवरं तदेवाशु दुर्गमाऽरण्यमण्डनम् ॥२०॥ १. नक्तं=राते धाम्नि=घरे ( धामन् = गृह) । २. परासु = मृत्यु पामेला ।
SR No.022627
Book TitleSulabh Charitrani Part 02
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBhadrankar Prakashan
Publication Year
Total Pages154
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy