________________
२४४
सुलभचरित्राणि-२ अन्वयः- 'त्रियामायाः अन्त्ये 'यामे सः पुनः तदेव दुर्गमारण्यमण्डनं
सरोवरम् आशु समायातवान् ॥२०॥ नित्यमित्ययमुद्दामक्रौर्यश्चौर्यलसद्रसः । तदेव नगरं गत्वाऽलुण्टद्विविधलुण्टनः ॥२१॥ अन्वयः- इति उद्दाम-क्रौर्यः चौर्य-लसद्रसः विविधलुण्टनः अयं नित्यं
तदेव नगरं गत्वा अलुण्टत् ॥२१॥ लोकं साधुसतीमुख्यं संतापयति पापिनि । यमागम इव भियेऽभवत्तत्र निशागमः ॥२२॥ अन्वयः- साधुसतीमुख्यं लोकं पापिनि संतापयति (सति)
तत्र, यमागमः इव निशाागमः भिये अभवत् ॥२२॥ तत्स्वरूपं परिज्ञाय राज्ञाथ व्यथितात्मना । परिपृष्टः पुरीरक्षो वैलक्ष्यन्यङ्मुखोऽवदत् ॥२३॥ अन्वयः- अथ तत्स्वरूपं परिज्ञाय व्यथितात्मना राज्ञा परिपृष्टः
पुरीरक्षः वैलक्ष्य-न्यङ्मुखः अवदत् ॥२३॥ प्रभो ! नभोऽध्वगः कोऽपि पुरं मथ्नात्यदः सदा । न चौरचरणन्यासः क्वापि चाप्यत यद् भुवि ॥२४॥ अन्वयः- (हे) प्रभो ! नभोध्वगः कः अपि अदः पुरं सदा "मथ्नाति,
यद् च भुवि चौर-चरण-न्यासः न क्वापि आप्यत ॥२४॥ ततः क्षितिपतिः कोपसंतप्तं लोचनद्वयम् । व्यथातुरः पुरप्रेक्षाकृपाश्रुषु निमज्जयन् ॥२५॥
१. त्रियामा=रात्रि । २. यामे=प्रहरमा । ३. आशु (अव्यय) झडपथी। १. मनाति पीडा उपजावे छे।