________________
२४२
सुलभचरित्राणि - २
अन्वयः - आसक्तेः अचौर्याहृतं पयः अपि मया न पपे, अहो ! अद्य तद् अपि कार्यं धिग्धिग् दैवविपर्ययम् ॥९॥
इति ध्यायन् श्रान्तः अयं चौरः तत्र कान्तार - पल्वले, पयः पानम्, अधिकं स्नानं च विदधे ॥ १०॥ युग्मम् ॥ निःसृत्य स गतश्रान्तिरारोहत्पालिशालिनम् । क्षुधाकुलः फलस्यूततरं चूततरुं ततः ॥११॥ अन्वयः- ततः निःसृत्य गतश्रान्तिः क्षुधाकुलः सः पालिशालिनं फलस्यूततरं चूत - तरुम् आरोहत् ॥११॥
फलैस्तृप्तस्ततो दृप्तः स चिन्तां क्लृप्तवानिति । हा मम किमद्याहर्विना चौर्येण यास्यति ॥१२॥ अन्वयः- ततः फलैः तृप्तः दृप्तः सः इति चिन्तां क्लृप्तवान् हहा ! अद्य मम अहः किं चौर्येण विना यास्यति ? ॥१२॥
इति चिन्तापरे तत्र मन्त्रसाधितपादुकः
उत्ततार सरस्तीरे कोऽपि योगीश्वरोऽम्बरात् ॥१३॥
अन्वयः - इति चिन्तापरे तत्र मन्त्रसाधितपादुकः कः अपि योगीश्वरः अम्बरात् सस्तीरे उत्ततार ॥१३॥
स व्योमगमनासन्नतपनातपतापितः
दत्त्वा दिक्षु दृशं मुक्त्वा पादुके उदकेऽविशत् ॥१४॥ अन्वयः - व्योम - गमन- आसन्न - तपन- आतप - तापितः सः दिक्षु दृशं दत्त्वा पादुके मुक्त्वा उदके अविशत् ॥१४॥ वेदमीदं पादुकाद्वन्द्वमस्याकाशगतौ क्षमम् । यदेतदिह मुक्त्वासौ पद्भ्यामेव जलेऽविशत् ॥१५॥
१. तपन= सूर्य । २. आतप = तडको । पल्वल = खाबोचियु |