________________
श्री केशरीकेवलिचरित्रम्
तथाहि शत्रुलोकाहिबर्हणः क्षीणगर्हणः । भूपोऽभूद् विजयो नाम धर्मी कामपुरे पुरे ॥५॥ अन्वयः - तथाहि - कामपुरे पुरे 'शत्रुलोक अहि- बर्हणः क्षीणगर्हणः विजयः नाम धर्मी भूपः अभूत् ॥५॥ तं श्रेष्ठी सिंहदत्ताख्यो नत्वाचख्यौ कदाचन । केशरी नाम मे स्वामिन्पुत्रोऽभूच्चौर्यभूरिति ॥ ६ ॥ अन्वयः - कदाचन सिंहदत्ताख्यः श्रेष्ठी तं नत्वा इति आचख्यौ (हे) स्वामिन्! केशरी नाम मे पुत्रः 'चौर्यभूः अभूत् ॥६॥ अथ स्थास्यति मद्भूमौ यदि तद्वध्य एव मे । इति केशरिणं देशान्नरेशो नित्यश्यत् ॥७॥ अन्वयः- अथ मद्-भूमौ स्थास्यति तद् में वध्यः एव इति नरेश: केशरिणं देशाद् निरकाशयत् ॥७॥ सोऽपि भूपभयाक्रान्तः श्रान्तो देशान्तरं व्रजन् । क्वाप्यपश्यद्वने स्वच्छशीतस्वादुरसं सरः ॥८ ॥ अन्वयः- भूपभयाक्रान्तः देशान्तरं व्रजन् श्रान्तः,
सः अपि वने क्वापि स्वच्छशीतस्वादुरसं सरः अपश्यत् ॥८॥ अचौर्याहृतमासक्तेर्न पयोऽपि पपे मया । अहो कार्यं तदप्यद्य धिग् धिग्दैवविपर्ययम् ॥९॥ इति ध्यायन्नयं तत्र श्रान्तः कान्तारपल्वले । चौरश्चक्रे पयः पानं स्नानं च विदधेऽधिकम् ॥१०॥ युग्मम् ॥
२४१
१. शत्रुलोक-अहि-बर्हणः = शत्रुलोक रूपी साप माटे मोर जेवो । २. चौर्यभूः=चोरीनी भूमि जेवो = चोर |