________________
| श्रीकेशरीकेवलिचरित्रम् |
सुध्यानानामसावद्यकृतां मौहूर्तिकं हृदि । यत्साम्यमाद्यं तच्छिक्षाव्रतं सामायिकाभिधम् ॥१॥ अन्वयः- असावद्यकृतां सुध्यानानां हृदि यद् 'मौहूर्तिकं साम्यं तत्
सामायिकाभिधम् आद्यं शिक्षाव्रतम् ॥१॥ आभाति यतिधर्मश्रीक्षणखेलनभूमिका । दूरितोर्मिविरामाय व्रतं सामायिकं पुनः ॥२॥ अन्वयः- पुनः यतिधर्म-श्री-क्षणखेलन-भूमिका सामायिकं व्रतम्
दूरित-उर्मि-विरामाय आभाति ॥२॥ मोक्षश्रीममतारम्भः समताभ्यासरङ्गभूः । करुणारससिन्धूमिराद्यं शिक्षाव्रतं मतम् ॥३॥ अन्वयः- मोक्ष-श्री ममता-आरम्भः समता-अभ्यास-रङ्गभूः,
करुणा-रससिन्धु-उर्मि: आद्यं शिक्षाव्रतं मतम् ॥३॥ क्रूराचारोऽपि संसारकाराया मुच्यते द्रुतम् । केशरीव त्रुटत्कर्मदामा सामायिकव्रती ॥४॥ अन्वयः- क्रूर-आचारः अपि केशरी इव त्रुटत्कर्म
दामा सामायिक-व्रती संसार-कारायाः मुच्यते ॥४॥
१. मौहूर्तिकं=(मुहूर्तेन भवम्) = एक मुहूर्त=बे घडी=४८ मिनीटनु । २. यतिधर्मश्रीक्षणखेलनभूमिका श्रमणधर्म रूपी लक्ष्मीने क्षण माटे रमवा माटेनी भूमिका जेवू । ३. कर्मदाम कर्मरूपी दोरडुं ।