________________
श्री सुरसेन महासेन चरित्रम्
स च प्रवचनक्षीरार्णववीचिनिभं वचः । उपाददे भवदवोद्भवक्लेशहरं गुरुः ॥ २५ ॥ अन्वयः - स च गुरुः प्रवचन - क्षीरार्णव- वीचिनिभं भवदव-उद्भव-क्लेश - हरं वचः उपाददे ॥ २५॥
२३१
भूभूषाभूतमाहूत-पुरुहूतपुरप्रभम् । पुरं मणिपुरं नाम विद्यते विश्वविश्रुतम् ॥२६॥ अन्वयः - भूभूषाभूतम् 'आहूत' पुरुहूतपुरप्रभं विश्वविश्रुतं मणिपुरं नाम पुरं विद्यते ॥२६॥ तस्मिन्कश्मलितारातिवदनो मदनो भटः । बभूव भगवद्धर्मसुधाम्बुधिसुधाकरः ॥२७॥ अन्वयः - तस्मिन् 'कश्मलित- 'अरातिवदनः
भगवद्धर्म-सुधा-अम्बुधि-सुधाकरः मदन: भटः बभूव ॥२७॥ तुल्याकृती तुल्यशक्ती तुल्यार्थी तुल्यतेजसा । धीर-वीराभिधौ तस्य सुतौ जातौ भुजाविव ॥२८॥ अन्वयः- तस्य भुजौ इव तुल्याकृती तुल्यशक्ती तुल्यार्थों तुल्यतेजसौ धीर-वीराभिधौ सुतौ जातौ ॥२८॥
जिनप्रवचनस्वादानन्दामन्दसुधारसौ ।
तौ भवाहिभुवा ग्रस्तौ न मोहविषमूर्च्छया ॥२९॥ अन्वयः- जिनप्रवचनस्वाद-आनन्द- अमन्द- सुधारसौ तौ भवअहि-भुवा मोह-विष-मूर्च्छया न ग्रस्तौ ॥२९॥
१. आहूत=(आ+वे+क्तम्) । २. पुरुहूतपुर - ( पुरुहूत = इन्द्र ), इन्द्रपुरी । ३. कश्मलित = काळा कर्या छे । ४. अरातिवदनः = शत्रुनां मुख । ५. भवाहिभुवा = (भव = संसार, अहि = साप, भुवा= थयेल) संसाररूपी सापथी उत्पन्न थयेल ।