________________
२३०
राहुमुक्तं रविमिव प्राप्तपूर्वच्छविच्छटम् । तं रोगमुक्तं वीक्ष्याभूल्लोकः सर्वोऽपि सोत्सवः ॥२०॥ अन्वयः - राहु-मुक्तं रविम् इव रोगमुक्तं तं प्राप्त - पूर्व-च्छवि-च्छटं वीक्ष्य सर्वः अपि लोकः सोत्सवः अभूत् ॥२०॥
विशेषतस्ततस्तारे धर्मभारे सहोदरौ । तौ बभूवतुरुद्धासौ शरदीवेन्दु - भास्करौ ॥२१॥ अन्वयः - ततः शरदि इन्दु - भास्करौ इव तौ सहोदरौ तारे धर्मभारे विशेषतः उद्भासौ बभूवतुः ॥२१॥
श्रीभद्रबाहुराचार्योऽवधिज्ञानमधिष्ठितः ।
सुलभचरित्राणि - २
कदापि तत्पुरोद्यानं द्यामिवेन्दुरभूषयत् ॥२२॥
अन्वयः - कदापि अवधिज्ञानम् अधिष्ठितः श्रीभद्रबाहुः आचार्यः तत् पुरोद्यानं द्याम् इन्दुः इव अभूषयत् ॥२२॥
प्रदक्षिणात्रयेणोपभ्रेमतुर्नेमतुश्च तम् । उपविश्य ततो धर्मदेशनां पपतुश्च तौ ॥२३॥
अन्वयः- ततः तौ तं प्रदक्षिणात्रयेण उपभ्रेमतुः नेमतुः च उपविश्य धर्मदेशनां पपतुः ॥२३॥
सुरसे सुरसेनेन निपीते देशनामृते ।
अपृच्छयत गुरुर्भ्रातरसनारोगकारणम् ॥२४॥
अन्वयः - 'सुरसे - देशनाऽमृते निपीते ( सति) सुरसेनेन गुरुः भ्रातृरसना - रोगकारणम् अपृच्छयत ॥ २४ ॥
१. सुरस=रसाळ=आह्लादक |