________________
२३२
सुलभचरित्राणि-२ कदाप्येतौ गतावात्मोद्याने ददृशतुर्मुनिम् । स्वमातुलं वसन्ताख्यं पुंवृत्तं पतितं भुवि ॥३०॥ अन्वयः- कदापि आत्मोद्याने गतौ एतौ पुंवृत्तं भुवि पतितं
वसन्ताख्यं स्वमातुलं मुनि ददृशतुः ॥३०॥ किमभूत्किमभूदेतदिति व्याकुलचेतसि । धीरेऽथ पृच्छति पुमानेकस्तत्राश्रुमुग्जगौ ॥३१॥ अन्वयः- अथ किम् अभूत् ? किम् अभूत् ? इति व्याकुल-चेतसि
धीरे पृच्छति, तत्र अश्रुमुग् एकः पुमान् जगौ ॥३१॥ प्रतिमास्थमिमं साधुं दष्ट्वैको दुष्टपन्नगः । दुर्गे नृपापराधीव प्रविष्टोऽस्मिन्महाबिले ॥३२॥ अन्वयः- दुर्गे (प्रविष्टः) नृपापराधी इव एकः, दुष्ट पन्नगः प्रतिमास्थं इमं साधुं दष्ट्वा अस्मिन् महाबिले प्रविष्टः ॥३२॥ अथ मातुलमोहेन क्रुधा धीरानुजोऽभ्यधात् । रे रङ्काः किमसौ नश्यन्नहिः पापी हतो न हि ॥३३॥ अन्वयः-अथ मातुल-मोहेन धीरानुजः क्रुधा अभ्यधात् रे रङ्काः ! असौ नश्यन् पापी अहिः किं न हि हतः ? ॥३३॥ धीरस्तमभ्यधात्सर्वं गते जीवति कर्मतः ।। हहा महात्मन् ! किं पापं मुधा बध्नासि जिह्वया ॥३४॥ अन्वयः-धीरः तम् अभ्यधाद् हहा महात्मन् ! कर्मतः सर्प जीवति गते, मुधा जिह्वया पापं किं बध्नासि ? ॥३४॥ क्रुधाभ्यधि वीरोऽपि दुष्टे दष्टमहामुनौ । तस्मिन् हतेऽपि धर्मः स्याद्धतिवाचा क्व पातकम् ॥३५॥