________________
२२७
श्री सुरसेन महासेन चरित्रं अन्तरारिप्रहारेषु धर्मकाण्डाद्भुतौ सुतौ । सुरसेन- महासेनौ तस्याभूतामुभौ शुभौ ॥५॥ अन्वयः- तस्य अन्तरारि-प्रहारेषु धर्मकाण्डाद्भुतौ सुरसेन- महासेनौ
उभौ शुभौ सुतौ अभूताम् ॥६॥ उपमानोपमेयत्वमभिधानाभिधेयता । रूपे च साहचर्ये च व्यचार्यत तयोर्जनैः ॥६॥ अन्वयः- तयोः रूपे च साहचर्ये च उपमानोपमेयत्वम्,
अभिधानाभिधेयता जनैः व्यचार्यत ॥६॥ दृशौ सदवलोकेषु बाहू मोहादिमर्दने । चरणौ सच्चरित्रेषु तौ धर्मस्य व्यराजताम् ॥७॥ अन्वयः- सदवलोकेषु धर्मस्य दृशौ मोहादि-मर्दने धर्मस्य बाहू
सच्चरित्रेषु धर्मस्य चरणौ तौ व्यराजताम् ॥७॥ अजायत रसज्ञायामन्येयुः श्वयथुः पृथुः । अकस्माद्विस्मयकरो महासेनस्य दुःसहः ॥८॥ अन्वयः- अन्येषुः महासेनस्य रसज्ञायां पृथुः विस्मयकरः, दुःसहः ३श्वयथुः अकस्माद् अजायत ॥८॥ उपशान्त्यै व्यधुर्वैद्या यद्यदौषधमुच्चकैः । ववृधे तेन तेनापि जिह्वाशोफः स लोभवत् ॥९॥ अन्वयः- वैद्याः उपशान्त्यै यद् यद् औषधम् उच्चकैः व्यधुः
तेन तेन अपि लोभवत् स "जिह्वा-शोफः ववृधे ॥९॥
१. धर्मकाण्ड = धर्मरूपी बाण । २. रसज्ञायां जीभमां । ३. श्वयथुः सोजो । ४. जिह्वासोफ: जीभनो सोजो ।