________________
श्री सुरसेन-महासेन चरित्रम्
रौद्रातधी-शस्त्रदान-पापशिक्षा-प्रमादिताः । अनर्थदण्डस्तत्त्यागः स्यात्तृतीयं गुणव्रतम् ॥१॥ अन्वयः- रौद्र-आर्त्तधी-शस्त्रदान-पापशिक्षा-प्रमादिताः अनर्थदण्डः,
तत् त्यागः तृतीयं गुणवतं स्यात् ॥१॥ अनर्थदण्डविरामव्रतधीरा महोदयम् । लभन्ते शुभसंभारभासुराः सुरसेनवत् ॥२॥ अन्वयः- अनर्थदण्ड-विराम-व्रत-धीराः शुभसंभारभासुराः सुरसेनवत्
___ महोदयं लभन्ते ॥२॥ तथाहि देवपूजोद्यद् गन्धान्धैर्मधुपैर्मुहुः । गीतप्रशस्तिरस्ति श्रीबन्धुरा बन्धुरा पुरी ॥३॥ अन्वयः- तथाहि- देवपूजा-उद्यद् गन्धान्धैः मधुपैः मुहुः गीतप्रशस्तिः
श्रीबन्धुरा बन्धुरा (इति) पुरी अस्ति ॥३॥ श्रीवीरसेन इत्युग्रवीरसेनाशिरोमणिः । वृत्तैः पवित्रैरश्यामस्तस्यामजनि भूधवः ॥४॥ अन्वयः- तस्यां पवित्रैः वृत्तैः अश्यामः उग्रवीरसेना-शिरोमणिः श्री
वीरसेनः इति भू-धवः अजनि ॥४॥
१. श्रीबन्धुरा=श्रिया बन्धुरा लक्ष्मीथी सुंदर अत्यंत धन संपत्तिथी समृद्ध लोकोवाळी। २. वृत्तं = आचरण । ३. अश्यामः (न श्यामः इति अश्यामः) उज्ज्वळ।