________________
२२८
सुलभचरित्राणि-२ औषधं धर्म एवास्य युक्तमित्युक्तयस्ततः । तं वैद्या मुमुचुनिःस्वं भुजङ्गं गणिका इव ॥१०॥ अन्वयः- धर्मः एव अस्य औषधम् युक्तम् इत्युक्तयः वैद्याः । निःस्वं भुजङ्गम् (मुञ्चन्त्यः) गणिकाः इव तं मुमुचुः ॥१०॥ क्रमेण कुथिता तस्य रसज्ञा राजजन्मनः । मक्षिकाणामनिर्वारसत्रागारत्वमाययौ ॥११॥ अन्वयः- क्रमेण तस्य राजजन्मनः कुथिता रसज्ञा-मक्षिकाणाम्
अनिर्वारसत्रागारत्वम् आययौ ॥११॥ उग्रदुर्गन्धभूः कान्तापितृमातृभिरप्यसौ । चाण्डालपाटक इवाध्वगैर्दूदमुच्यत ॥१२॥ अन्वयः- ५अध्वगैः (मुच्यमानः) चाण्डाल-पाटकः इव, उग्र-दुर्गन्ध
भूः असौ कान्ता-पितृ-मातृभिः अपि दूराद् अमुच्यत ॥१२।। तं तथाभूतमुद्भाव्य भ्रातृस्नेहवशंवदः । दुर्गन्धं दुःसहं जित्वा सुरसेनः समीपगः ॥१३॥ रोगोऽसौ यावदस्यास्ति न किञ्चित्तावदाहरे । म्रियते यद्यनेनैष म्रियेऽनशनतस्ततः ॥१४॥ इति न्यविशत भ्रातुरग्रे स दृढनिश्चयः । वीजयन्वसनान्तेन मक्षिका मुखपातिनीः ॥१५॥
त्रिभिर्विशेषकम् ॥
१. निःस्वं निर्धनम् । २. भुजङ्ग जार । ३. राजजन्मनः राजकुमारनी । ४. अनिर्वारसत्रागारत्वं रोकटोक विनानी दानशाळापणाने । ५.अध्वगैः=मुसाफरो वडे। ६. चाण्डालपाटकः = चंडालो ज्यां रहेता होय ते विभाग ।