________________
२१७
श्रीधर्मनृपचरित्रम् इतश्च चित्रशालाख्ये त्वत्पुरोपपुरे पुरे । श्राद्धोऽस्ति शुद्धबुद्धाख्यो विमलाया मनःप्रियः ॥४७॥ अन्वयः- इतः च चित्रशालाख्ये त्वत्पुरोपपुरे पुरे विमलायाः मनः
प्रियः शुद्धबुद्धिलाख्यः श्राद्धः अस्ति ॥४७॥ द्वादशव्रतनिर्व्याजपालनोज्ज्वलजीवितः । ईदग्दुर्भिक्षवाचापि न चक्रे योऽन्नसङ्ग्रहम् ॥४८॥ अन्वयः- द्वादशव्रतनिर्व्याजपालनोज्ज्वलजीवितः यः ईदृग्
दुर्भिक्षवाचा अपि अन्नसङ्ग्रहं न चक्रे ॥४८॥ स देवस्तत्प्रियाकुक्षिमाप सुस्वप्नसूचितः । साप्यसूत सती पुत्रं पवित्रं ह्यस्तने दिने ॥४९॥ अन्वयः- सुस्वप्नसूचितः सः देवः तत्प्रियाकुक्षिम् आप
सा सती अपि ह्यस्तने दिने पवित्रं पुत्रम् असूत ॥४९॥ महाभाग्यवतो जन्म तस्य जित्वाशु दुर्ग्रहान् । बभञ्ज बत दुर्भिक्षमिह द्वादशवार्षिकम् ॥५०॥ अन्वयः- बत तस्य महाभाग्यवतः जन्म आशु दुर्ग्रहान् जित्वा इह
द्वादशवाषिकं दुर्भिक्षं बभञ्ज ॥५०॥ इति श्रुत्वाद्भुतप्रीतिर्नत्वा केवलिनं नृपः । तत्राशु गत्वा तं बालं भाले न्यस्येदमूचिवान् ॥५१॥ अन्वयः- इति श्रुत्वा अद्भुतप्रीतिः नृपः केवलिनं नत्वा
__ आशु तत्र गत्वा तं बालं भाले न्यस्य इदम् ऊचिवान् ॥५१॥ दुर्भिक्षमज्जदज्जगदुद्धारधीर नमोऽस्तु ते । राजा त्वमेव मे राज्ये तलारक्षोऽस्मि तावकः ॥५२॥