________________
२१८
सुलभचरित्राणि-२ अन्वयः- दुर्भिक्ष-मज्जद् जगदुद्धारधीर ! ते नमः अस्तु, त्वम् एव
मे राज्ये राजा (अहं तु) तावकः तलारक्षः अस्मि ॥५२॥ मूर्तिमानेव धर्मोऽयमित्थं दुर्भिक्षभङ्गकृत् । इति तस्याभिधा धर्म इति धात्रीभृता कृता ॥५३॥ अन्वयः- इत्थं दुर्भिक्ष-भङ्गकृत् अयं मूर्तिमान् धर्मः एव,
इति धात्रीभृता तस्य 'धर्मः' इति अभिधा कृता ॥५३॥ चरैर्मत्वेदमन्येऽपि भूभुजः स्वस्वभूमिषु ।। धर्माज्ञां वर्तयित्वाशु वर्षयामासुरम्बुदान् ॥५४॥ अन्वयः- चरैः इदं मत्वा अन्ये अपि भूभुजः स्वस्वभूमिषु आशु
धर्माज्ञां वर्तयित्वा अम्बुदान् वर्षयामासुः ॥५४॥ वयःकालोचितैश्चित्रैः प्राभृतैः सर्वभूभुजाम् । अश्रान्तानन्दसन्दर्भः सोऽर्भकः समवर्धत ॥५५॥ अन्वयः- सर्वभूभुजां वयःकालोचितैः चित्रैः प्राभृतैः अश्रान्तानन्द
-सन्दर्भः सः अर्भकः समवर्धत ॥५५॥ समस्तभूभृतां पुत्र्यः सकलाः कमलेक्षणाः । पतिवरास्तमाजग्मुः समुद्रमिव निम्नगाः ॥५६॥ अन्वयः- समस्तभूभृतां सकलाः कमलेक्षणाः पतिवराः पुत्र्यः निम्नगाः
समुद्रम् इव तम् आजग्मुः ॥५६॥ धर्मः समग्रभूगोललोलाज्ञो गुरुभक्तिभाक् । धर्मी कर्माण्यसंचिन्वन्स भोगान्बुभुजेऽद्भुतान् ॥५७॥ अन्वयः- समग्रभूगोललोलाज्ञः गुरु-भक्तिभाग् धर्मी स धर्मः कर्माणि
असंचिन्वन् अद्भुतान् भोगान् बुभुजे ॥५७॥