________________
२१६
सुलभचरित्राणि-२ अन्वयः- संसार-भीतैः (भज्यमानः) सर्वज्ञ-दिष्ट- धर्मः इव, दुर्भिक्ष
___ भीरुभिः जगज्जनैः अभितः सः एव एकः भेजे ॥४१॥ प्रासुकैः पेय-पक्वान्न-दधि-दुग्ध-घृतादिभिः । स दिगन्तागतान्साधूल्लक्षशः प्रत्यलाभयत् ॥४२॥ अन्वयः- सः दिगन्तागतान् लक्षशः साधून् प्रासुकैः पेय-पक्च-अन्न
दधि-दुग्ध-घृतादिभिः प्रत्यलाभयत् ॥४२॥ पितृ-भ्रातृ-सुतीकृत्य श्रावकान्स वयःक्रमात् । प्रत्यहं गृह एवोच्चैरसङ्ख्यातानभोजयत् ॥४३॥ अन्वयः- स प्रत्यहम् असंख्यातान् श्रावकान् वयःक्रमात् ।
पितृ-भ्रातृ-सुतीकृत्य गृहे एव उच्चैः अभोजयत् ॥४३॥ इत्यखण्डव्रतः श्रीमान्प्रवरस्तु वरस्तुतिः । दानैकव्यसनः कालयोगतस्त्रिदिवं गतः ॥४४॥ अन्वयः- इति अखण्ड-व्रतः वरस्तुतिः दानैकव्यसनः श्रीमान्
प्रवरः तु काल-योगतः त्रिदिवं गतः ॥४४॥ शाश्वतार्हन्महायात्रानित्यनिर्मलधर्मधीः । पूर्णायुश्चिन्तयामास स वासवसमः सुरः ॥४५॥ अन्वयः- शाश्वत-अर्हत्-महायात्रा-नित्य-निर्मल-धर्मधीः वासवसमः
पूर्णायुः सः सुरः चिन्तयामास ॥४५॥ श्राद्धो युगप्रधानोऽस्ति यः कश्चिद् भुवि तत्सुतः । भूयासं, सार्वभौमोऽपि मा भूवं कलुषे कुले ॥४६॥ अन्वयः- यः कश्चिद् भुवि युगप्रधानः श्राद्धः अस्ति तत् (तस्य) सुतः
भूयासं, 'सार्वभौमः अपि कलुषे कुले मा भूवम् ॥४६॥
१. सार्वभौमः चक्रवर्ती ।