________________
श्रीधर्म नृपचरित्रं
अन्वयः - अल्पविभूतिकं स्वर्गम् उन्मुच्य 'स्वर्गवेश्या इव, स्मरलास्यलसदृश: दास्यः तद् गृहे 'व्यलसन् ॥३६॥ सत्संयमगुणस्वान्तावष्टम्भस्तम्भयन्त्रितः । नाक्रष्टुं विषयैः शेके तस्येन्द्रियगणः स तैः ॥३७॥ अन्वयः- सत्-संयमगुणस्वान्तावष्टम्भस्तम्भयन्त्रितः तस्य सः इन्द्रिय-गणः तैः विषयैः आक्रष्टुं न शेके ||३७| आययौ मार्गकोटिभिर्धनं यत्तस्य नित्यशः । ययौ पात्रदयौचित्यदानमार्गत्रयेण तत् ॥३८॥ अन्वयः - नित्यशः तस्य मार्गकोटिभिः यद् धनम् आययौ,
तत् १-पात्र, २-दया, ३ - औचित्यदानमार्गत्रयेण ययौ ॥३८॥ अन्नार्थविग्रहव्यग्रपितृमातृसुतोद्धतम् । एकदा रङ्कदुःप्रेक्षं दुर्भिक्षं समभूद् भुवि ॥ ३९ ॥ अन्वयः - एकदा अन्नार्थ-विग्रहव्यग्रपितृ-मातृ-सुत - उद्धतं, रङ्कदुःप्रेक्षं दुर्भिक्षं भुवि समभूत् ॥३९॥ विलीनं दानिनां दानैस्तद्दानं ववृधे तदा । ग्रीष्मे सरोम्भः शुष्येत स्यादुद्वीचिस्तु वारिधिः ॥४०॥ अन्वयः - तदा दानैः दानिनां ( धनं) विलीनं, तद्दानं ववृधे, ग्रीष्मे सरोऽम्भः शुष्येत वारिधिः तु उद्वीचिः स्यात् ॥४०॥ दुर्भिक्षभीरुभिर्भेजे स एवैको जगज्जनैः । सर्वज्ञदिष्टः संसारभीतैर्धर्म इवाभितः ॥४१॥
२१५
१. स्वर्गवेश्याः=अप्सराओ । २. व्यलसन् (वि + अलसन्, लस्= लसति धातु १लो गण उ.पद) =विलास कर्यो । ३. अन्नार्थ विग्रहव्यग्र = विग्रह - झगडो, अन्न माटे झघडामां व्यग्र । ४. तद्दानं=तस्य दानं = तेनुं दान ।