________________
२१४
सुलभचरित्राणि-२ इत्युज्ज्वलीकृतमतिर्मतिभाजां मतल्लिका । गुरून् गुणगुरूनेष साक्षीकृत्येदमब्रवीत् ॥३१॥ अन्वयः- इति उज्ज्वलीकृत-मतिः मति-भाजां 'मतल्लिका एषः गुणगुरून्
गुरून् साक्षीकृत्य इदम् अब्रवीत् ॥३१॥ स्निग्धाम्लमधुरक्षारानाहारान्नाहमाहरे । कटुतिक्तकषायांस्तु गृणाम्युनोदरव्रतः ॥३२॥ अन्वयः- स्निग्ध-आम्ल-मधुर-क्षारान् आहारान् अहं न आहरे
कटु-तिक्त-कषायान् तु उनोदरव्रतः गृह्णामि ॥३२॥ यदासक्तान्नरान्मुक्तिरीय॑येवेक्षतेऽपि न । ताः प्रत्याख्यामि वामाक्षीभवाब्धेरधिदेवताः ॥३३॥ अन्वयः- यदासक्तान् नरान् अपि मुक्तिः ईjया इव न ईक्षते भवाब्धेः अधिदेवताः ताः 'वामाक्षी: प्रत्याख्यामि ॥३३॥ इत्यादृतं व्रतं सत्त्वविशालः पालयन्नयम् । क्रमेण मुमुचे रोगैरसाध्यं सुकृतस्य किम् ॥३४॥ अन्वयः- इति सत्त्वविशालः आदृतं व्रतं पालयन् अयम् क्रमेण रोगैः
___ मुमुचे, सुकृतस्य किम् असाध्यम् (स्यात्) ? ॥३४॥ तदमुञ्चव्रतं धीरो निरोगत्वं गतोऽपि सः । क्रमेणाभूद्विभूतीनां प्रभूतानामपि प्रभुः ॥३५॥ अन्वयः- निरोगत्वं गतः अपि सः धीरः तव्रतम् अमुञ्चत्,
क्रमेण प्रभूतानां अपि विभूतीनां प्रभुः अभूत् ॥३५॥ तद् गृहे व्यलसन्दास्यः स्मरलास्यलसदृशः । स्वर्गवेश्या इव स्वर्गमुन्मुच्याल्पविभूतिकम् ॥३६॥ १. मतल्लिका=प्रशस्त, उत्कृष्ट, उत्तम । २. वामाक्षी स्त्री