________________
श्रीधर्मनृपचरित्रं
२१३ अन्वयः- (हे) प्रभो ! तेषां ज्योतिर्विदां 'पृथ्व्याम् अवृष्टि-विषयं वचः'
कथं विघट्टितम् ? अथ स केवली प्राह ॥२५॥ ग्रहयोगेन दुर्भिक्षं भवद् द्वादशवार्षिकम् कारणेन न येनाभूत्तदमीषामगोचरम् ॥२६॥ अन्वयः- ग्रहयोगेन भवद् द्वादशवार्षिकं दुर्भिक्षं येन कारणेन न अभूत्
तद् अमीषाम् अ-गोचरम् ॥२६॥ पुरे पुरिमतालाख्ये नरः प्रवर इत्यभूत् । महारोगैः पराभूतः स युवापि स्वकर्मतः ॥२७॥ अन्वयः- पुरिमतालाख्ये पुरे प्रवरः इति नरः अभूत्
स युवा अपि स्व-कर्मतः महारोगैः पराभूतः ॥२७॥ सैष स्वाद्यं रसस्वादविलोलरसनारसः । जग्राह यमाहारं विकारमकरोत्स सः ॥२८॥ अन्वयः- रसस्वाद-विलोलरसनारसः सः एषः यं यम् आहारं जग्राह
सः सः (आहारः) विकारं अकरोत् ॥२८॥ सोऽथ दध्यौ य आहारः शरीराहितकारकः । प्रत्याख्यानादनाहारफलं किं तस्य नाददे ॥२९॥ अन्वयः- अथ सः दध्यौ, यः आहारः शरीर-अहितकारकः, (स्यात्
तर्हि) तस्य प्रत्याख्यानाद् (अहं) अनाहार-फलं किं न
आददे ? ॥२९॥ शूकासकोचितदृशो भजन्ति सुदृशो न माम् । ताः प्रत्याख्याय किं साक्षान्न गृह्ण मर्त्यताफलम् ॥३०॥ अन्वयः- शूका-सङ्कोचित-दृशः सुदृशः मां न भजन्ति ताः प्रत्याख्याय
साक्षाद् मर्त्यता-फलं किं न गृह्ण ? ॥३०॥