________________
सुलभचरित्राणि - २
२१२
अन्वयः - पृथिवीं कृतार्थं कृत्वा एषः अब्दः लोक-स्तव - भयाद् इव क्वाङपि अगात्, महतां एषा एव गति: (भवति) ||२०|| निवृत्तचिन्तासन्तापं ततः क्ष्मापं परेऽहनि । एत्य 'हस्तमिलद्भालो वनपालो व्यजिज्ञपत् ॥२१॥ अन्वयः - ततः क्ष्मापं परे अहनि हस्तमिलद्भाल:
वनपालः निवृत्त-चिन्ता - सन्तापं एत्य व्यजिज्ञपत् ॥२१॥ त्वदुद्याने चतुर्मासवासमासूत्र्य तस्थुषः । युगन्धरमुनेरद्योत्पेदे केवलमुज्ज्वलम् ॥२२॥ अन्वयः- चतुर्मासवासम् आसूत्र्य त्वद्- उद्याने तस्थुषः युगन्धरमुनेः अद्य उज्ज्वलं केवलम् उत्पेदे ॥२२॥ अथारामिकमापूर्य परमैः पारितोषिकैः ।
आरामाय जगामायममायसुकृतः कृती ॥ २३ ॥ अन्वयः - अथ परमैः पारितोषिकैः आरामिकं आपूर्य अमाय - सुकृतः कृती अयं आरामाय जगाम ॥२३॥
स त्रिः प्रदक्षिणीकृत्य प्रणिपत्य च तं मुनिम् । सद्धर्मदेशनां श्रुत्वा पप्रच्छेति कृताञ्जलिः ॥२४॥ अन्वयः - तं मुनिं त्रिः प्रदक्षिणीकृत्य प्रणिपत्य च सद्धर्म-देशनां श्रुत्वा कृताञ्जलिः स इति पप्रच्छ ||२४|| प्रभो ! ज्योतिर्विदां तेषामवृष्टिविषयं वचः । कथं विघट्टितं पृथ्व्यामथ स प्राह केवली ॥ २५ ॥
१. हस्तमिलत् भाल:-अंजलि करीने, हाथ जोडीने । २. आरामाय - बगीचामां, (ज्यां जवानुं होय त्यां द्वितीयां विभक्ति थाय परंतु क्यारेक चतुर्थी विभक्ति पण थाय)