________________
| श्रीधर्मनृपचरित्रम् ।
यद्भोग्यमुपभोग्यं च पारिमित्येन गृह्यते । भोगोपभोगमानाख्यं तद् द्वितीयं गुणव्रतम् ॥१॥ अन्वयः- यद् भोग्यम्-उपभोग्यं च पारिमित्येन गृह्यते तद् भोगोपभोगमान - आख्यं द्वितीयं गुणवतं (भवति) ॥१॥ सुकृतश्रीनिवासैकसरोजं सप्तमं व्रतम् । चित्रमत्र परत्रापि सुरभीकुरुते सतः ॥२॥ अन्वयः- सुकृतश्रीनिवासैकसरोजं सप्तमं व्रतं
चित्रं अत्र परत्र अपि सतः सुरभीकुरुते ॥२॥ कृती मितीकृताहारः सप्तमव्रतलीलया । मुच्यते संचितेनापि कर्मरोगेण धर्मवत् ॥३॥ अन्वयः- मितीकृताहारः कृती सप्तमव्रतलीलया
संचितेन अपि कर्मरोगेण धर्मवद् मुच्यते ॥३॥ तथाहि सिद्ध साहित्यमिव विद्यासु भासुरम् । नगरीषु गुरुश्रीकमस्ति श्रीकमलं पुरम् ॥४॥ अन्वयः- तथाहि- विद्यासु भासुरं सिद्ध साहित्यं इव नगरीषु गुरुश्रीकं
श्रीकमलं पुरम् अस्ति ॥४॥ तत्राजनिष्ट राजेन्दुः सत्याख्यो राजशेखरः कालरात्रेरिवादर्शो यदसिर्ददृशेऽरिभिः ॥५॥