________________
२०९
श्रीधर्मनृपचरित्रम् अन्वयः- तत्र सत्याख्यः राजेन्दुः राजशेखरः अजनिष्ट
___ यदसिः अरिभिः काल-रात्रेः आदर्शः इव ददृशे ॥५॥ सकलैः स कलापात्रैः क्षात्रैरिव गुणैः श्रितः । कस्य कस्य नमस्यत्वं भूभुजङ्गो न जग्मिवान् ॥६॥ अन्वयः- कला-पात्रैः इव सकलैः क्षात्रैः गुणैः श्रितः सः भूभुजङ्गः
कस्य कस्य नमस्यत्वं न जग्मिवान् ? ॥६॥ संभावि भुवि दुर्भिक्षं देव ! द्वादशवार्षिकम् । इत्येकदा पुरस्तस्य ज्योतिःशास्त्रविदोऽवदन् ॥७॥ अन्वयः- (हे) 'देव ! भुवि द्वादशवार्षिकं दुर्भिक्षं संभावि' इति
ज्योतिःशास्त्रविदः एकदा तस्य पुरः अवदन् ॥७॥ सर्वथा नान्यथादृष्टगीरमीषां मनीषिणाम् । चकम्पे वचसा तेन स वातेन तृणं यथा ॥८॥ अन्वयः- अमीषां मनीषिणां अदृष्टगीः सर्वथा अन्यथा न (स्यात्) तेन
वचसा यथा वातेन तृणं (तथा) सः चकम्पे ॥८॥ रौप्य-काञ्चन-रत्नादि-सर्वस्वव्ययतस्ततः । कणानां च तृणानां स चक्रे सङ्ग्रहं बहुम् ॥९॥ अन्वयः- ततः रौप्य-काञ्चन-रन-आदिसर्वस्वव्ययतः सः कणानां
तृणानां च बहुं सङ्ग्रहं चक्रे ॥९॥ अथान्नसङ्ग्रहव्यग्रे समग्रेऽपि जनेऽभितः । विवेश मध्ये देशस्य कापि दुर्भिक्षवर्णिका ॥१०॥