________________
१९७
श्री सिंहश्रेष्ठिचरित्रम् इत्यस्मानशिषद्गुप्तं प्रयाणसमये नृपः । तद्बद्ध्वाप्यधुना सिंहंयामो नागपुरं न किम् ?॥४१॥ युग्मम्॥ अन्वयः- विधिच्छलात् सिंहः चेत् कुत्रापि यात्रां निषेधति,
बलाद् अपि (यात्रां) कुर्वन्तः यूयं न अपराधिनः ॥४०॥ इति प्रयाणसमये नृपः अस्मान् गुप्तम् अशिषद्
तद् अधुना सिंहं बद्ध्वा अपि नागपुरं किं न यामः ? ॥४१॥ इत्यात्तवाचः सचिवानाचष्ट नृपनन्दनः ।। श्वः कर्तव्यमिदं यात्रा नाद्य निर्णीयते यदि ॥४२॥ अन्वयः- इति आत्तवाचः सचिवान् नृपनन्दनः आचष्ट यदि अद्य
यात्रा न निर्णीयते (तर्हि) इदं श्वः कर्तव्यम् ॥४२॥ अथैकान्ते महीकान्तजन्मा तन्मानसाप्रियम् । वचोऽवोचत सिंहस्य पुरो धर्मकलागुरोः ॥४३॥ अन्वयः- अथ महीकान्तजन्मा तन्मानसाप्रियं वचः धर्मकलागुरोः
सिंहस्य पुरः एकान्ते अवोचत ॥४३॥ धर्माम्बुधिसुधाधामा सिंहनामा महामतिः । ततः कुमारमारब्धसंसारशमनोऽभ्यधात् ॥४४॥ अन्वयः- ततः धर्माम्बुधिसुधाधामा-आरब्ध संसार-शमनः सिंहनामा
महामतिः कुमारम् (इति) अभ्यधात् ॥४४॥ नेदं मेऽङ्गमपीत्युक्त्वा भूतले प्रतिलेखिते । पतित्वा पादप इव प्रस्थिरावयवव्रजः ॥४५॥ शुचौ क्वचिद्वनोद्देशे पादपोपगमाभिधम् । ग्रहीष्यामि व्रतंतत्ते बद्ध्वा नेष्यन्ति किंमम?॥४६॥युग्मम्॥
१. श्वः आवतीकाले