________________
१९६
सुलभचरित्राणि-२ अन्वयः- पृथग् भूतम् आत्मानं इव सुहृदं हृदय-प्रियं सिंह
नृसिंहः तत्र सर्वक्रियागुरुम् अकरोत् ॥३५॥ कृतयात्रस्ततः सिंहो गुप्तसंवेगवाग्भरैः । अत्रोट्यत् कुमारस्य संसारवासवासनाम् ॥३६॥ अन्वयः- ततः कृतयात्रः सिंहः गुप्त-संवेग-वाग्भरैः कुमारस्य
संसारवास-वासनाम् अत्रोटयत् ॥३६॥ व्यक्तमुक्तिवधूलोभः शोभमानाः श्रियोऽथ ताः । तृणवद् गणयामास महीवासवनन्दनः ॥३७॥ अन्वयः- अथ व्यक्तमुक्ति-वधू-लोभः महीवासव-नन्दनः ताः
शोभमानाः श्रियः तृणवद् गणयामास ॥३७॥ कृतव्याजोत्तरः श्रेष्ठी दिग्विरामव्रतस्थितः । न योजनशतादूर्ध्वं स प्रयाणमकारयत् ॥३८॥ अन्वयः- 'कृतव्याजोत्तरः दिग्विरामव्रतस्थितः स श्रेष्ठी योजनशताद्
___ऊर्ध्वं प्रयाणं न अकारयत् ॥३८॥ यात्राविरामाद् यातेषु पञ्चषेषु दिनेष्वथ । कुमारमूचुः सचिवा रहसि प्रहसगिरः ॥३९॥ अन्वयः- अथ यात्राविरामात् पञ्चषेषु दिनेषु यातेषु,
प्रहसगिरः सचिवाः रहसि कुमारम् (एवम्) ऊचुः ॥३९॥ यात्रां कुत्रापि सिंहश्चेन्निषेधति विधिच्छलात् । तबलादपि कुर्वन्तो न यूयमपराधिनः ॥४०॥
१. कृतयात्रः कृता यात्रा येन सः कृतयात्रः-यात्रा करनार । २. कृतव्याजोत्तरः कृतः व्याजेन उत्तरः येन सः बहानुं करीने उत्तर आपनार ।