________________
१९५
श्री सिंहश्रेष्ठिचरित्रम् अन्वयः- यत्र मे गन्तुं युक्तं स्यात् तत्र (त्वं) निदिश्यसे, तद् अपि
कार्यं ते अदेश्यं तद् भोः (त्वं) महामहिमा असि ॥३०॥ न यासि योजनशतादूर्ध्वमित्यस्ति ते व्रतम् । सहस्राद्योजनेभ्योऽग्रे त्वां मोक्ष्याम्यौष्ट्रिकैस्ततः ॥३१॥ अन्वयः- योजनशतादूर्ध्वं न यासि इति ते व्रतम् अस्ति, ततः त्वाम्
औष्ट्रिकैः सहस्रात् योजनेभ्यः अग्रे मोक्ष्यामि ॥३१॥ सिंहः श्रुत्वेत्यथ क्रोधावहित्थविहितस्मितः । ऊचेऽग्रतो नृणां पत्युः प्रत्युत्पन्नमतिः कृती ॥३२॥ अन्वयः- अथ इति श्रुत्वा क्रोध-अवहित्थ-विहित-स्मितः
प्रत्युत्पन्नमतिः कृती सिंहः नृणां पत्युः अग्रतः ऊचे ॥३२॥ स्वामिन्नसहमानस्ते विरहं निरहङ्कृतिः । अकार्षमुत्तराण्येवं देवादेशः शिरोमणिः ॥३३॥ अन्वयः- (हे) स्वामिन् ! ते विरहम् असहमानः निरहंकृतिः (अहं)
एवम् उत्तराणि अकार्ष, देवादेशः (तु मम) शिरोमणिः
(इव अस्ति) ॥३३॥ नृपः प्रीतोऽथ तद्वाचा विवाहाय व्यहारयत् । महासैन्य- महामन्त्रि-महाभटयुतं सुतम् ॥३४॥ अन्वयः- अथ तद्वाचा प्रीतः नृपः महासैन्यमहामन्त्रिमहाभटयुतं सुतं
विवाहाय व्यहारयत् ॥३४॥ पृथग्भूतमिवात्मानं सुहृदं हृदयप्रियम् । नृसिंहः सिंहमकरोत्तत्र सर्वक्रियागुरुम् ॥३५॥ १. अवहित्थ-छूपावq