________________
१९४
सुलभचरित्राणि-२ अन्वयः- ततः किञ्चित् कोपकडाराक्षः क्ष्मादयितः अवदत् (हे)
मित्र ! अयं सम्बन्धः किं न साधुः यत् (त्वं)
उत्तरं न दत्से ? ॥२५॥ अथ पृथ्वीपति कोपकणाङ्कमवलोकयन् । वाक्कलां कलयामास सिंहः पीयूषपेशलाम् ॥२६॥ अन्वयः- अथ कोपकणाङ्कं पृथ्वीपतिम् अवलोकयन् सिंह: पीयूष
पेशलां वाक्कलां कलयामास ॥२६॥ न योजनशतादूर्ध्वं व्रजामीति व्रतं मम । अतस्तु योजनशतं 'साग्रं नागपुरं पुरम् ॥२७॥ अन्वयः- योजनशताद् ऊर्ध्वं न व्रजामि इति मम व्रतम् । अतः नागपुरं
पुरं तु साग्रं योजनशतम् (अस्ति) ॥२७॥ तदहं न विवाहेऽस्मिन्व्रजामि व्रतभङ्गभीः । एवंविधेषु कार्येषु दिश्यन्ते न च मादृशाः ॥२८॥ अन्वयः- तद् अस्मिन् विवाहे व्रतभङ्ग भीः अहं न व्रजामि,
मादृशाः च एवंविधेषु कार्येषु न दिश्यन्ते ॥२८॥ इत्युक्तिघृतहोमेनाऽज्वलत् कोपमहानलः । तज्ज्वालाजालसंतप्तामिव भूपोऽभजद् गिरम् ॥२९॥ अन्वयः- इति उक्तिघृत-होमेन ज्वलत्कोपमहानल: भूपः, तत्
ज्वालाजालसंतप्तामिव गिरम् अभजत् ॥२९॥ स्याद् गन्तुं यत्र मे युक्तं मया तत्र निदिश्यसे । कार्यं तदप्यदेश्यं ते तन्महामहिमासि भोः ॥३०॥ १. कोपकडाराक्षः गुस्साथी करडी आंखवाळो । २. पीयूषपेशलां-पीयूष इव पेशलां, अमृत जेवी कोमळ । ३. साग्रं-अधिक ।