________________
१९३
श्री सिंहश्रेष्ठिचरित्रम् अन्वयः- तत् (हे) प्रभो ! सत्प्रभोल्लासनिर्विलासमनोभुवे सुनवे
रतिनिर्जयिनी ताम् कामं अङ्गीकुरु ॥२०॥ तं भूपमुत्सवाभोगात् तां कन्यां वरलाभतः । दौत्यसाफल्यतः मां च स्वामिन्ननुगृहाण तत् ॥२१॥ अन्वयः- तत् (हे) स्वामिन् ! उत्सवाऽभोगात् तं भूपं, वरलाभतः
तां कन्यां, 'दौत्यसाफल्यतः माम् च अनुगृहाण ॥२१॥ इति वादिनि दूतेऽस्मिन्नानन्दी मेदिनीपतिः । सिंहश्रेष्ठिमुखाम्भोजे न्यस्तनेत्रयुगो जगौ ॥२२॥ अन्वयः- इति अस्मिन् दूते वादिनि आनंदीमेदिनीपतिः-सिंहश्रेष्ठि
मुखाम्भोजे न्यस्तनेत्रयुगः जगौ ॥२२॥ नावयोरन्तरं किचिदमुमादाय नन्दनम् । व्रज नागपुरं बन्धो ! सम्बन्धोऽयं विधीयताम् ॥२३॥ अन्वयः- (हे) बन्धो ! आवयोः किञ्चित् अन्तरं न,
अमुं नन्दनम् आदाय नागपुरं व्रज (एवम्) अयं सम्बन्धः
विधीयताम् ॥२३॥ अनर्थदण्डादुद्दण्डाढूनः स चकितः कृती । किञ्चिन्यञ्चन्मुखः सिंहो नोत्तरं नृपतेर्ददौ ॥२४॥ अन्वयः- उद्दण्डात् अनर्थदण्डात् चकितः किञ्चन
न्यञ्चन्मुखः कृती सः सिंह: नृपतेः उत्तरं न ददौ ॥२४॥ किञ्चित्कोपकडाराक्षस्ततः मादयितोऽवदत् । सम्बन्धोऽयं न किं साधुर्यद्दत्से मित्र ! नोत्तरम् ॥२५॥ १. दौत्य-दूतस्य भावः कर्म वा दूतपणुं ।