________________
१९२
सुलभचरित्राणि-२ तस्य प्रियास्ति प्रस्ताववाच्या सुरवधूक्तिषु । मकरध्वजकीरैकपञ्जरी रत्नमञ्जरी ॥१५॥ अन्वयः- तस्य सुरवधूक्तिषु प्रस्ताववाच्या मकरध्वजकीरैकपञ्जरी
रत्नमञ्जरी (इति नाम्ना) प्रिया अस्ति ॥१५॥ कामभूभर्तुरस्तित्वमुच्चैरस्ति तयोः सुता । श्रुता गुणमालेति गुणमालेव देहिनी ॥१६॥ अन्वयः- कामभूभर्तुः उच्चैः अस्तित्वं, देहिनी गुणमाला इव गुणमाला
इति विश्रुता तयोः सुता अस्ति ॥१६॥ तदङ्गसंगता लक्ष्मीः साक्षाल्लक्ष्मीमुपाहसत् । स्फुरदम्भोजकुम्भीन्द्रकुम्भद्वन्द्वेन्दुवासिनीम् ॥१७॥ अन्वयः- तद्-अङ्गसंगता लक्ष्मीः स्फुरद्-अम्भोजकुम्भीन्द्रकुम्भद्वन्द्व
इन्दुवासिनीं साक्षाद् लक्ष्मीम् उपाहसत् ॥१७॥ तारुण्यचारवे तस्यै वरान् ध्यायन्धराधिपः । त्वत्सुतं निश्चिकायैव प्रभायै भास्करं यथा ॥१८॥ अन्वयः- वरान् ध्यायन् धराधिपः यथा प्रभायै भास्करं (तथा)
___ तारुण्यचारवे तस्यै त्वत्सुतम् एव निश्चिकाय ॥१८॥ इत्यर्थमभ्यर्थयितुं त्वयि मामीश ! मे प्रभुः । विश्वासभाजनीभूतं मुख्यदूतं नियुक्तवान् ॥१९॥ अन्वयः- (हे) ईश ! इति अर्थं त्वयि अभ्यर्थयितुं मे प्रभुः
विश्वासभाजनीभूतं मां मुख्यदूतं नियुक्तवान् ॥१९॥ तत्प्रभो ! सत्प्रभोल्लास-निर्विलासमनोभुवे । रतिनिर्जयिनी कामं तामङ्गीकुरु सूनवे ॥२०॥