________________
१९८
सुलभचरित्राणि-२ अन्वयः- इदम् अङ्गम् अपि मे न इति उक्त्वा प्रतिलेखिते भूतले
पतित्वा पादपः इव प्रस्थिरावयवव्रजः ॥४५॥ क्वचिद् शुचौ वनोद्देशे पादपोपगमाभिधं व्रतं ग्रहीष्यामि,
तत् ते मम बद्ध्वा किं नेष्यन्ति ? ॥४६॥ युग्मम् ॥ इत्युक्त्वा सिंहवत्सिंहः काननं निशि जग्मिवान् । त्वमेव मे गतिरिति क्षमापजोऽप्यनु तं ययौ ॥४७॥ अन्वयः- इति उक्त्वा सिंहः निशि सिंहवत् काननं जग्मिवान्
त्वम् एव मे गतिः इति २क्ष्मापजः अपि तम् अनुययौ।।४७|| निशान्ते तावपश्यन्तः शयनादिषु मन्त्रिणः । पदश्रेण्यनुसारेण भुवं भूरितरां ययुः ॥४८॥ अन्वयः- निशान्ते शयनादिषु तौ अपश्यन्तः मन्त्रिणः
पदश्रेण्यनुसारेण भूरितरां भुवं ययुः ॥४८॥ तौ गृहीत-परिव्रज्यौ पादपोपगमस्थितौ । नित्य-व्योमभ्रमश्रान्तौ सुप्तौ सूर्योडूपाविव ॥४९॥ क्वचिच्छैलतले वीक्ष्य वैलक्ष्यकलुषाननाः । मन्त्रिणः प्रणिपत्योचुश्चटूच्चयमयं वचः ॥५०॥ युग्मम् ॥ अन्वयः- गृहीत-परिव्रज्यौ पादपोपगमस्थितौ
नित्य-व्योम-भ्रम-श्रान्तौ-सुप्तौ सूर्य-उडूपौ इव तौ ॥४९॥ क्वचित् शैलतले वीक्ष्य वैलक्ष्य-कलुष-आननाः मन्त्रिणः प्रणिपत्य 'चटु-उच्चयमयं वचः ऊचुः ॥५०॥ युग्मम् ॥
१. पादपोपगमः (पादपः इव उपगमः=) वृक्षनी जेम स्थिर रहेवं तेवू अनशन व्रत । २. क्षमापजः-राजपुत्र । ३. चटूच्चयमयं वचः = काकलुदीभर्या वचन ।