________________
१७८
सुलभचरित्राणि २
अन्वयः - पुण्यकलशाऽम्भोभिः प्रियान्वितं तं अभिषिच्य करिणां वरः करेण पृष्ठं आरोपयामास ॥४८॥ निन्ये महोत्सवेनाथ करीश्वरशिरः स्थितः । राजसौधाय हृष्यद्भिरहृष्यन् सचिवैरसौ ॥४९॥
अन्वयः- अथ हृष्यद्भिः सचिवैः करीश्वरशिरः स्थितः अहृष्यन् असौ महोत्सवेन राजसौधाय निन्ये ॥ ४९ ॥
श्रीपङ्कान्निःसृतं राज्य - महापङ्कप्रपातिनम् । स स्वं मेनेऽम्बुदोन्मुक्तं राहुग्रस्तमिवोडुपम् ॥५०॥ अन्वयः - अम्बुदोन्मुक्तं राहुग्रस्तं उडुपं इव श्रीपङ्कात् निःसृतं राज्य-महापङ्क प्रपातिनं स्वं सः मेने ॥५०॥
भद्रपीठाश्रये तस्मिन्नभिषेकं निषेधति । विलक्षे मन्त्रिलक्षेऽथ दिव्यादभूद्दिव्यभारती ॥५१॥ अन्वयः - अथ भद्रपीठाश्रये तस्मिन् अभिषेकं निषेधति (सति) मन्त्रिलक्षे विलक्षे (सति) दिव्याद् दिव्यभारती अभूत् ॥५१॥ अद्यापि विद्यते भूरि कर्म भोगफलं तव । तदङ्गीकृत्य राज्यश्रीरुत्सङ्गी कुरु संमदम् ॥५२॥ स्वभाग्यदेवतावाचमित्याकर्ण्य स वर्ण्यधीः । सिंहासने जिनेशस्य प्रतिमां विन्यवीविशत् ॥५३॥ अन्वयः- इति स्वभाग्यदेवतावचनं आकर्ण्य वर्ण्यधीः सः सिंहासने जिनेशस्य प्रतिमां विन्यवीविशत् ॥५३॥
धर्मज्ञैर्मन्त्रिभिः प्रीतैः पादपीठोपवेशनः । जिनदासस्याभिषेकं स्वस्मिन् धीमानकारयत् ॥५४॥