________________
श्री विद्यापति चरित्रं
१७९ अन्वयः- पादपीठोपवेशनः धीमान् स प्रीतैः धर्मज्ञैः मन्त्रिभिः
स्वस्मिन् जिनदासस्य अभिषेकं अकारयत् ॥५४॥ सुधीः संधारयन्भुक्तमानं स्वस्मै परिग्रहम् । समस्तं जिननामाङ्क वस्तुचक्रमचीकरत् ॥५५॥ अन्वयः-सुधीः स्वस्मै भुक्तमात्रं परिग्रहं संधारयन्,
समस्तं वस्तुचक्रं जिननामाङ्क अचीकरत् ॥५५॥ नित्यं यात्रोत्सवं तत्र स पवित्रमनाः प्रभोः । प्रभुतवित्तव्ययतः कारयामास कृत्यवित् ॥५६॥ अन्वयः-पवित्रमनाः कृत्यवित् सः तत्र नित्यं प्रभुतवित्तव्ययतः प्रभोः
यात्रोत्सवं कारयामास ॥५६॥ भूरिव्ययकृते तस्मिन्नगृह्णति करं जनात् । तद्भाग्यदेवतावर्षऽनित्यं रत्नैर्नृपौकसि ॥५७॥ अन्वयः-तस्मिन् भूरिव्ययकृते जनात् करं अगृह्णति (सति) तद्
भाग्यदेवता नित्यं नृप-औकसि रत्नैः अवर्षत् ॥५७॥ धर्माधीनोऽयमित्येतं जेतुं जातोद्यमा नृपाः । जिनाधिष्ठायिभिर्यक्ष रोगमुत्पाद्य नाशिताः ॥५८॥ अन्वयः-अयं धर्माधीनः इति एतं जेतुं जातोद्यमा नृपाः
जिनाधिष्ठायिभिः यक्षैः रोगं उत्पाद्य नाशिताः ॥५८॥ विकटं कटकारम्भं शक्तिस्तम्भं च विद्विषाम् । ज्ञात्वाथ हर्षहृद्यात्मा विद्यापतिरचिन्तयत् ॥५९॥ अन्वयः-अथ विद्विषां विकटं कटकारम्भं शक्तिस्तंभं च ज्ञात्वा हर्षहद्य
आत्मा विद्यापतिः अचिन्तयत् ॥५९॥