________________
१७७
श्री विद्यापति चरित्रं कदापि लोभलीलाभिर्लोलितं लोलुभं मनः । पञ्चमव्रतपञ्चत्वप्रपञ्चमपि संसृजेत् ॥४३॥ अन्वयः- कदा अपि लोभलीलाभिः लोलितं लोलुभं मनः
पञ्चमव्रत-पञ्चत्व-प्रपञ्चं अपि संसृजेत् ॥४३॥ पूरितं वित्तपूरेण तत्परित्यज्य मन्दिरम् । क्वचिद्देशान्तरे यावश्छुटावः श्रीमहाग्रहात् ॥४४॥ अन्वयः- तत् वित्तपूरेण मन्दिरं परित्यज्य क्वचित् देशान्तरे यावः
श्रीमहा-आग्रहात् 'छुटावः ॥४४॥ । इति निश्चित्य स तया सहागच्छद् बहिर्गृहात् । श्रीकेलिकोमलानक्तं कमलादिव षट्पदः ॥४५॥ अन्वयः- इति निश्चित्य कमलात् षट्पदः इव सः
तया सह श्रीकेलिकोमलात् गृहात् बहिः नक्तं अगच्छत् ॥४५॥ करण्डमण्डिनीं बिभ्रत्तीर्थेशप्रतिमामसौ । स्मरन्पञ्चनमस्कारान्नगरद्वारमास्थितः ॥४६॥ अन्वयः- करण्डमण्डिनीं तीर्थेश-प्रतिमां बिभ्रत् असौ पञ्चनमस्कारान्
स्मरन् नगर द्वारं आस्थितः ॥४६॥ मृते शूलादपुत्रेऽथ शूराख्ये तत्पुरीपतौ ।। मन्त्रिभिः कल्पितो दिव्यहस्ती तत्रापतत्तदा ॥४७॥ अन्वयः- अथ अपुत्रे शूराख्ये तत्-पुरीपतौ शूलात् मृते (सति)
मन्त्रिभिः कल्पितः दिव्यहस्ती तदा तत्र आपतत् ॥४७|| तं पुण्य-कलशाम्भोभिरभिषिच्य प्रियान्वितम् । पृष्ठमारोपयामास करेण करिणां वरः ॥४८॥ १. छुटावः-छूटीए।