________________
२७६
सुलभचरित्राणि-२ तत्र युद्धसुधासत्रममित्रवसुधाभृताम् । बभूव भूविभुर्भानुर्जितभानुः स्वतेजसा ॥५॥ अन्वयः- तत्र 'अमित्रवसुधाभृतां युद्ध सुधा सत्रं, स्वतेजसा जितभानुः
भानुः (नाम्ना) भूविभुः बभूव ॥५॥ मन्त्री तस्य धरित्रीन्दोमित्रानन्द इति श्रुतः । अजायत धियां पात्रं 'छात्रीकृतबृहस्पतिः ॥६॥ अन्वयः- तस्य धरित्रीन्दोः धियां-पात्रं, छात्रीकृत-बृहस्पतिः मित्रानन्द
इति श्रुतः मन्त्री अजायत ॥६॥ मध्येसदः कदाप्युच्चैनरेन्द्र-सचिवेन्द्रयोः । व्यवसायस्य पुण्यस्य प्रतिष्ठानेऽभवत्कलिः ॥७॥ अन्वयः- कदा अपि २मध्येसदः नरेन्द्र-सचिवेन्द्रयोः 'व्यवसायस्य
पुण्यस्य प्रतिष्ठाने 'कलिः अभवत् ॥७॥ क्रुधाथ वसुधानाथः प्रोवाच सचिवं प्रति । व्यवसायः प्रमाणं न प्रमाणं पुण्यमेव चेत् ॥८॥ ततः स्वपुण्यमाहात्म्यात्त्वं पुण्यबलगर्वितः । गृहाण मम राज्यद्धिमित्थं संवर्धिमत्सरः ॥९॥ युग्मम् ॥ अन्वयः- अथ वसुधानाथः क्रुधा सचिवं प्रति प्रोवाच,
व्यवसायः प्रमाणं न चेत् पुण्यं एव प्रमाणम् ॥८॥ ततः पुण्य-बल गवितः संवद्धिमत्सरः त्वं इत्थं स्व
-पुण्य-माहात्म्यात् मम राज्य ऋद्धिं गृहाण ! ॥९॥ युग्मम् ॥ १. अमित्रवसुधाभृतां (अमित्र शत्रु, वसुधा पृथ्वी, भृत् धारण करनार), शत्रु राजाओने। २. छात्रीकृत बृहस्पतिः ब्रह्माने शिष्य बनावनार । ३. मध्येसदः सदसः मध्यं मध्यसदः (सदस्=सभा) सभामां । ४. व्यवसायस्य पुण्यस्य=पुरुषार्थ अने प्रारब्ध । ५. कलिः झघडो, विवाद ।
M