________________
- २७७
श्री मित्रानन्द मन्त्रीश्वर चरित्रं यश्च कश्चित्पुरीमध्याद्भवन्तमनुयास्यति । तत्कण्ठात्तृषितोऽसौ मत्खड्गः पास्यति शोणितम् ॥१०॥ अन्वयः- पुरीमध्यात् च यः कश्चित् भवन्तं अनुयास्यति,
तृषित: असौ मत् खड्गः तत् कण्ठात् 'शोणितं पास्यति॥१०॥ गच्छ तुच्छमते ! तूर्णं पूर्णं कुरु निजं वचः । गृहे न हन्त ! गन्तव्यमित एवान्यतो व्रज ॥११॥ अन्वयः- (हे) तुच्छमते ! तूर्णं गच्छ, निजं वचः पूर्ण कुरु, हन्त ! गृहे
न गन्तव्यं इतः एव अन्यतः व्रज ॥११॥ इति क्षितिपतेराज्ञां विज्ञाय सचिवाग्रणीः । एकाक्येव दृढावेशोऽचलद्देशान्तरं प्रति ॥१२॥ अन्वयः- इति क्षितिपतेः आज्ञां विज्ञाय दृढ-आवेशः सचिव-अग्रणीः
एकाकी एव देशान्तरं प्रति अचलत् ॥१२॥ पद्भ्यामेवादिभूचारविपद्भ्यामद्भुतोद्यमः । स निःससार नगरानगराज इवोन्नतः ॥१३॥ अन्वयः- आदिभूचार-विपद्भ्याम् अद्भुत उद्यमः नगराज इव उन्नतः सः पद्भ्यां एव नगरात् निःससार ॥१३॥ गच्छन्नतुच्छपुण्योऽसौ श्रान्तो मध्यंदिनेऽधिकम् । ददर्शेन्दोरिव कलाकोटीभिर्घटितं सरः ॥१४॥ अन्वयः- अतुच्छपुण्यः गच्छन् मध्यंदिने अधिकं श्रान्तः असौ
इन्दोः कलाकोटीभिः घटितं इव सरः ददर्श ॥१४॥ यल्लोललहरीहस्तगणं भृङ्गघनस्वनाः । . आह्नातुं तृषितान्वक्त्रकोटीरब्जच्छलाद्दधौ ॥१५॥ १. शोणितं लोही