________________
श्री मित्रानन्द मन्त्रीश्वर चरित्रं
१२
कुव्यापृतीनां स्नानादेस्त्यागो ब्रह्मव्रतं तपः । आहुः शिक्षाव्रतमिदं तृतीयं पौषधाभिधम् ॥१॥ अन्वयः - 'कुव्यापृतीनां, स्नानादेः त्यागः, ब्रह्मव्रतं,
तपः इदं पौषध-अभिधं तृतीयं शिक्षाव्रतं आहुः ॥१॥ तत्तु शुद्धोक्तचारित्रिव्रतवत्परिपाल्यते । अहोरात्रमयाशेषां रात्रिं यावज्जितेन्द्रियैः ॥२॥ अन्वयः - तत् तु जितेन्द्रियैः शुद्ध उक्त चारित्रव्रतवत् अहोरात्रमयाऽशेषां रात्रिं यावत् परिपाल्यते ॥२॥ भवोरगमदच्छेदे पौषवत्पौषधव्रतम् ।
आपत्तापभिदे मित्रानन्दमन्त्रिपतेरिव ॥३॥ अन्वयः - भव-उरग-मदच्छेदे पौषवत् पौषधं व्रतं,
मित्रानन्द मन्त्रिपतेः इव आपत् तापभिदे (भवति) ॥३॥ तद्यथा - धर्मनिर्मलमत्यर्थमर्थविद्योति विद्यते ।
पुरं पुष्पपुरं पुष्पचापचापलपेशलम् ॥४॥ अन्वयः - तद् यथा - धर्मनिर्मलं अत्यर्थं अर्थ विद्योति, पुष्पचाप - चापल - पेशलं पुष्पपुरं पुरं विद्यते ||४||
१. कुव्यापृती=कुव्यापार । २. पौषवत् = पोष महिनानी जेम । ३. विद्योति = प्रकाशित । ४. पुष्पचाप = कामदेव ।