________________
[ ११ ]
॥ श्री आर्द्रकुमारचरित्रम् ॥
श्रीवीतरागबिम्बस्य, वीक्षणाद्देहिनामिह । बोधिलाभो भवेदार्द्र- कुमारस्येव तत्क्षणात् ॥१॥
तथाहि - अस्मिन्नेव पयोधिमध्ये आर्द्रकनामाऽनार्यदेशोऽस्ति, स च देशो बहुधनधान्यप्रभृतिवर्यवस्तु भरालंकृतोऽस्ति । तत्रार्द्रकनामा नृपो न्यायाध्वना` पृथ्वीं शशास । तस्यार्द्रकाभिधाना शीलादिबहुगुणगणविभूषिता राज्ञी बभूव। तयोर्दम्पत्योः परस्परं हार्दिकी भूरिप्रीतिर्बभूव । यतःप्रीतिर्जन्मनिवासतो १ ऽप्युपकृतेः २ सम्बन्धतो ३ लिप्सया ४। विन्ध्ये हस्तिव १ दम्बुजे मधुपवत्" २ चन्द्रे पयोराशिवत् ३ ॥ अब्दे चातकवद्भवेदसुमतां सर्व नैमित्तिकी । या निष्कारणबन्धुरा ६ शिखिवदम्भोदे" क्वचित् सा पुनः ॥ १ ॥
अथान्यदा मगधविषयाधिपः८ श्रेणिको भूपतिर्निजमन्त्रिण आर्द्रकद्वीपे आर्द्रकभूपप्रीतीसम्पादनार्थं भूरिवर्यप्राभृतसहितप्रीतिलेखयुतान् प्रेषयामास । एवं सप्रीतिलेखं भूविर्यप्राभृतं स्वीकृत्यार्द्रकराजापि परमं सन्तोषं प्राप्य तान् मन्त्रिणः पप्प्रच्छ । 'भो मन्त्रिणः ! तस्य मद्बन्धोर्मगधेशितुः किं कुशलमस्ति' ? ततस्तैर्मन्त्रिभिरपि श्रेणिक भूपकुशलतोदन्ते १० निवेदिते नृपपार्श्वे स्थितस्तत्पुत्र आर्द्रकुमारः कृताञ्जलिर्निजजनकमपृच्छत्, 'भो तात ! कोऽयं मगधाधिपस्ते सुहृत् विद्यते ? तदा राजाऽवदत्, वत्स ! स श्रेणिकाभिधो मगधदेशभूपतिरस्ति, तेन समं ममातीव प्रीतिवर्तते, पूराप्यात्मीयकुलभूपतिभिः समं तत्रत्यभूपानां प्रीतिरासीत्, एवं कुलक्रमागताद्यापि सा प्रीतिरविच्छिन्नैव परिवर्तते' । एवं निजजनकवचांसि श्रुत्वाऽतीव हृष्टः स आर्द्रकुमारस्तान् श्रेणिकनृपमन्त्रिणो निजावासे समाकार्य रहोवृत्त्या ११ पप्रच्छ, 'भो मन्त्रिणः !