________________
श्रीवङ्कचूलचरित्रम् • ३९
चानुमोदयन्, समाधिना कालं कृत्वा द्वादशे देवलोर्के देवत्वं सम्प्राप्तः । ततो जिनदासस्तस्यौर्ध्वदेहिकं ३७ कृत्वा गृहे व्रजन् मार्गे ते द्वेऽपि देव्यौ पूर्ववदत्यौ वीक्ष्य पृष्टवान्, 'हे भद्रे ! अद्यापि युवाभ्यां किमर्थमत्रैवं विलप्यते । सोऽखण्डितव्रतः सन् इतो मृत्वा भवत्योर्वल्लभः किं न जातः ?' तदा ते देव्यौ निःश्वस्योचतुः, हे स्वच्छाशय ! किं पृच्छसि, स ते सुहृत्प्रान्ते परिणामविशुद्ध्याऽस्मान् व्यतीत्य द्वादशं स्वर्गं जगाम, एतत् श्रुत्वा परमानन्दं सम्प्राप्तो जिनदासः सुहृदं ध्यायन् श्रीजिनधर्मं चानुमोदयन् स्वगृहं ययौ ।
: अभ्यास :
प्रश्नः १. केन कारणेन पुष्पचूलस्य अभिधानं वङ्कचूलो जातम् ?
२. वङ्कचूलः कस्य सकाशात् कान् चतुरः नियमान् जग्राह ? ३. चातुर्मासादौ आगताचार्यभगवद्भयः वङ्कचूलेन किं कथितम् ? ४. केन नियमेन वङ्कचूलः नृपस्य पुत्रः अभवत् ?
५. जिनदास श्रावककारिता वङ्कचूलस्यान्तिमाराधना ज्ञाप्यताम् ? ६. द्वे द्वेव्यौ केन कारणेन अरुदताम् ?
॥ इति नियमपालेन वङ्कचूलवृत्तान्त: सम्पूर्णः ॥
१. चोरस्य भावः चौर्यम् । (तद्धित.) चौर्यम् आदौ यस्मिन् तद्द्यौर्यादि । (ब. व्री.) चौर्यादिनः व्यसन् चौर्यादिव्यसनम् । ( ष. तत्पु. आसक्तस्य भावः आसक्तत्वम् ।( तद्धित. ) चौर्यादिव्यसने आसक्तत्वम् चौर्यादिव्यसनासक्तत्वम् । (सप्त. तत्पु. ) तेन चौर्यादिव्यसनासक्तत्वेन । यौरी आहि व्यसनभां खासस्तपसाथी. ॥ २. पुरे भवा:पौराः । ( तद्धित. ) पौराश्चामी जनाश्च पौरजनाः । (वि. पू. क ) तान् पौरजनान् ॥ ३. प्रादुर्भावपुं. प्रगट ॥ ४. नवस्य भावानिनव्यानि । ( तद्धित. ) नव्यानि उत्पन्नानि नव्योत्पन्नानि । ( वि. उभ. क. ) नव्योत्पन्नानि च तानि अङ्कुराणि च नव्योत्पन्नाङ्कुराणि । ( वि. पू. क. ) नव्योत्पन्नाङ्कुराणां सम्मर्दः नव्योत्पन्नाङ्कुरसम्मर्दः । ( ष. तत्पु. ) तस्मात् नव्योत्पन्नाङ्कुरसम्मर्दात् । नवा उत्पन्न थयेला अङ्कुरायोना दृषावाथी । ५. धर्मस्य लाभः धर्मलाभः । ( ष. तत्पु. ) धर्मलाभस्य - आशी: धर्मलाभाशीः । ( ष. तत्पु. ) ताम् धर्मलाभाशिषम् ॥ ६. तेन दर्शितम्तद्दर्शितम् । (तृ. तत्पु. ) निर्गतम् अवद्यम् यस्मात् तनिरवद्यम् । ( प्रादि. बहु. ) निरवद्यश्च तद् स्थानकञ्चनिरवद्यस्थानकम्। (वि.पू. कर्म. ) तद्दर्शितञ्च तद् निरवद्यस्थानकञ्च तद्द शितनिरवद्यस्थानकम् । (वि. पू. क. ) तस्मिन्